OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 15, 2015

15/08/2015

दतियायां कारगिलं दिवंगतानां परिजनानां सम्मानम् 

भोपाल:- स्वतंत्रता दिवसस्य अवसरे दतियायां कारगिल युद्धे दिवंगता: योद्धानां परिजना: सम्मानिता: भविष्यन्ति। एतेन सह एव मीसाबंदिन: अपि सम्मानिता: कारयिष्यन्ते। स्वास्थ्यं मंत्री डॉ. नरोत्तम मिश्र: उक्तवान् यत् देशस्य सीमानां रक्षां कुर्वन्त: प्राणं बलिदानं कुर्वाणा: दिवंगतानां परिजना: विशेषा: सम्मानस्य योग्या: सन्ति। एतादृशान् परिजनान् सार्वजनिकं सम्मानं मिलिष्यति। मंत्री डॉ. नरोत्तम मिश्र: स्वतंत्रता दिवसे जिला पुलिस लाइन दतियायां ध्वजारोहणं करिष्यन्ति।स्वतंत्रता दिवसे दतियायां वृक्षारोपणम्, राष्ट्रभक्ति: गीतं च भजनं संध्याया: आयोजनम् अपि क्रियते। प्रख्याता गायिका सुश्री अनुराधा पौडवालस्य गायनम् अपि भविष्यति।

नदीं सरस्वतीं पुनरुज्जीवयति

गङ्गे चैव यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी पुरतो भवतु मे सदा।।
चण्डीगढ:- पुराणेषु प्रतिपादिता सरस्वतीनदीं प्रत्यक्षीकर्तुम् अधुना हरियाना सर्वकारेण योजना प्रख्यापिता अस्ति। पञ्चाशत् कोटि रुप्यकाणिएतदर्थं संस्थापितम्। 
  यमुनासागर जिल्लायां रोहलेरी ग्रामे अद्यतन काले कृते निर्माणचत्वरे गर्तनिर्माणकाले भूमे अधः २४० सेन्टी मीट्टर भागे नदी प्रवहति इति ज्ञात्वा एव एतादृश प्रयत्न:। हरियाणा सरस्वती पैतृक विकसनबोर्ड् नाम समितिं रूपीकर्तुं १० कोटी व्ययीकरोति॥