OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 19, 2015

भूसमान: प्ळूट्टोग्रह:- स्तब्धाः वैज्ञानिकाः।

 वाशिङ्टण् - वैज्ञानिकान्‌ अद्भुत प्रपञ्चे निवेश्य NASAयाः न्यूहोरिसोण् नामकेन बाह्याकाश पेटकेन प्ळूट्टो ग्रहस्य नवीन चित्राणि गृहीतानि । भूमे: आर्टिक् ध्रुव प्रदेशसमानानि चित्राणि तानि । हिमखण्डेन परिवृताःशैलाः समतल प्रदेशा: च तेषु द्रष्टुं शक्यन्ते । १५०० किलोमीटट्टर विस्तृतानि व्यक्तानि चित्राणि तानि  प्ळूटोग्रहस्य अन्तरीक्ष - उपरितल स्थितिं व्यक्ततया सूचयन्ति इति "नास" अवदत् । 
   जूलै १४ दिने पेटके विद्यमानाया वैड् अङ्गिल् राफ् चित्रग्राहि द्वारा ग्रहीतेषु चित्रेषु अतिशैत्येन खनीभूता: नैट्रजन्‌ अन्तरीक्षस्थ हिम-मेघाः च सुव्यक्ततया द्रष्टुं शक्यन्ते । एते प्रतलात् १०० किलोमीट्टर् पर्यन्तं संव्याप्य प्रसृताः दृश्यते। तत्र प्रतिदिनम् अन्तरीक्ष स्थितिषु व्यत्ययं भवति इति सूचयति त्यपि उह्यन्ते नासया। 

पाकिस्तान व्योमनिलये भीकरवादि आक्रमणं-४३ मरणानि 
पेषवारः-पाकिस्तानदेशे पेषवारसमीपे बादबेर् व्योमनिलये तालिबान् भीकरैः कृते आक्रमणे सैनिकैः भीकरैः च सहिताः ४३ जनाः निहताः। 

ई.श्रीधरः यू.एन्. रक्षासमित्यड्गः

Image result for e sreedharan 
  कोच्चि-दिल्ली मेट्रो रेल् कोर्परेषनस्य मुख्योपदेष्टा ई.श्रीधरः यू.एन्.उन्नताधिकारसमित्यड़कत्वेन निमन्त्रितः।