OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 11, 2015

  ICC अध्यक्षस्थानात् श्रीनिवासः निष्कासितः।

मुम्बई - अन्ताराष्ट्रीयक्रिकट् समित्याः(ICC)अध्यक्षस्थानात् एन्.श्रीनिवासः निष्कासितः। तत्स्थाने शशाङ्क् मनोहरः नियमितः। ICC मध्ये भारतीयक्रिकट्नियन्त्रणमण्डलस्य (BCCI) प्रतिनिधिरूपेण शशाङ्कमनोहरः संस्थायाः वार्षिकसम्मेलने  चितः इत्यतः श्रीनिवासस्य स्थानचलनं सञ्जातम्।


माणिः अपराधं  न कृतवानिति मुख्यमन्त्री।

अनन्तपुरी- मदिराविक्रयणलकुचविषये माणिः अपराधी इति न विश्वसिमि इति
केरलस्य मुख्यमन्त्री उम्मन् चाण्डी वर्यः। माणेः परित्यागपत्रं स्वीकृत्य तिरूवनन्तपुरे माध्यमप्रवर्तकैः साकं भाषमाण : आसीत् मुख्यमन्त्री । उच्चन्यायालयस्य आदेशे कुत्रचित् परामृष्टः इति विहाय माणेः उपरि कोऽपि अपराधः आरोपितः नास्तीति तेन उक्तम् । उन्नतं राजनैतिकमूल्यं  मनसि निधाय एव माणिना स्थानत्यागः कृतः । अयं तस्य स्वीयः निश्चयः इत्येव मुख्यमन्त्री अवदत् । स्थानं  त्यक्तुं कुतश्चिदपि सम्मर्दः नासीत्  । तादृश्य : वार्ता: अतथ्याः इत्यपि तेनोक्तम् ।
1975 तः ऎक्यजनाधिपत्यसख्यस्य अविभाज्यघटकं भवति केरला कोण्ग्रस्। ततः आरभ्य
ऎक्यजनाधिपत्यसख्यस्य शक्तिस्रोतः भवति सः इत्यपि उम्मन् चाण्डिवर्यः अवदत् । के .एम् माणिः सभायां ज्येष्ठ: एव। तस्य सेवनं सर्वकाराय सम्पदेव । निरपराधतां प्रकाश्य सः शीघ्रं प्रत्यागच्छतु इत्यपि तेनोक्तम् ।

माणिना त्यागपत्रं समर्पितम्।


अनन्तपुरी - मदिराविक्रयणलकुचविषये उच्चन्ययालयात् प्रतिकूलपरामर्शविहितः केरलवित्त-नीतिमन्त्री के एम् माणी त्यागपत्रं समर्पयत्। नीतिन्यायव्यवस्थां प्रति आदरसूचकं भवति स्थानत्यागमिति माणिना उक्तम्। यू डि एफ् दलाय इतोपि सम्पूर्णं साहाय्यं स्यादिति तेनोक्तम्।

॥ सुवचनानि ॥
 इतो भ्रष्टस्ततो भ्रष्टः ।
ईश्वरेच्छा बलीयसी ।

 इक्षुः मधुरोऽपि  समूलं न भक्ष्यः।