OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 19, 2016

भारतस्य आत्मानम् द्रेष्टुं संस्कृतभाषा ज्ञेयः - बिषप्प् मार्. जोसफ़् कल्लरङ्गाट्

पाला अतिरूपताया: बिषप्प्  मार्. जोसफ़् कल्लरङ्गाट् महोदयः ग्रन्थानां विमोचनं करोति

      पाला (केरलम् ) > संस्कृतपण्डितः रेव. डा. डा. जेक्कब् कत्तयक्कल् महाभागेन अनूदिता: भर्तृहरेः नीतिशतकस्य  वैराग्यशतकस्य  शृंगारशतकस्य  च विमोचन सन्दर्भे भाषमाणः आसीत् सः। संस्कृतभाषा मानवान् शान्तस्वभावशुद्धतायां च नेष्यति इति च अनेन महाभागेन उक्तः
नूतनविज्ञानस्य सदुपयोगः कथं करणीयमिति आदर्शभावेन प्रदर्शयन्ति अत्र - आण्ड्रोयिड् जङ्गमदूरवाणिमुपयुज्य इमानि पुस्तकानि DTP पुटविन्यासः च कृत्वा प्रकाशिताः इत्येव वैशिष्ट्यम्। 
इतः पर्यन्तं शताधिकानां पुस्तकानां रचना अनेन महाभागेन कृतः अस्य 101, 102, 103 तमानि पुस्तकानि इमानि

आकाशे कुसुमोत्पत्तिः।

          वाषिङ्टण् > आकाशकुसुममिति कविसङ्कल्पः याथार्थ्यमभवत्। बहिराकाशे इदंप्रथमतया कुसुमं विकसितम्। अन्तराष्ट्र वहिराकाशनिलयस्य सस्य परीक्षणशालायां सीनिया नामकं सस्यं पुष्पितम्।
बहिराकाशनिलये कृत्रिमसंविधानेन एव सस्यस्य परिपालनम्।सूर्यप्रकाशस्य स्थाने रक्तनीलहरितवर्णाऩि एल् ई डि दीपानि उपयुक्तानि। बहिराकाशशास्त्रे सुप्रधानविजयः इति नासया प्रख्यापितम्।