OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 24, 2016

आणवभीतिः - दक्षिणकोरियाया राष्ट्रपञ्चकानां उपस्थितिः आहूतः।

सोल्> अत्तर कोरियायाः आणाव योजनाम् अधिकृत्य विचिन्तनाय कोरियायाः राष्ट्रपतिना पार्क् ह्यून्है वर्येण उत्तरकोरियां विहाय अन्यानां राष्ट्रपञ्चकानाम् उपस्थितियोगः निमन्त्रितःl   जनुवरि ६ दिनाङ्के उत्तर कोरियया कृतान् आणवायुधपरीक्षणान् विरुध्य उपरोधम् आयोजयतुं चीना - अमेरिक्का राष्ट्रयोः मध्ये चर्चां प्रचलन् अस्ति। आस्मिन् सन्दर्भे दक्षिण कोरियायाः इयं चर्चा प्राधान्यमर्हति।


 भीकरविरुद्ध-प्रक्रियासु १४ युवानः गृहीताः।

नवदिल्ली> राष्ट्रिय अन्वेषणसंस्थया (NIA) सुरक्षा सेनाभ्यः च पञ्चसु राज्येषु कृतासु भीकरविरुद्ध-प्रक्रियासु १४ युवानः गृहीताः। भारतेषु इस्लामिकस्टेट् भीकरदलवत् आक्रमणाय पद्धतयः आविष्कृताः इति सूचनया ऐते गृहीताः। एतेषु भूरिजनाः सोफ्ट् वेर् विज्ञानिनः भवन्ति। IS समान-आशयस्थः जानूदुल् खलीदे हिन्द इति दलानां अङ्गः एते इति अनुमीयते।

 'बार् 'उत्कोचविषये मन्त्रिणः बाबोः स्थानमपि विनष्टम्।

कोच्ची - मदिरालयविक्रयणं संबध्य आर्थिकभ्रष्टाचारविषये केरलस्य एक्सैस् विभागस्य मन्त्री के बाबुवर्यः त्यागपत्रं  समर्पितवान्। बाबुवर्यंमधिकृत्य उन्नीते आरोपणे अन्वेषणमावश्यकमिति नीतिपीठस्य परामर्शानुसारमेव त्यागपत्रसमर्पणम्।