OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 29, 2016


भारतेन भूतल-आकाश-मिसैल् शस्त्रं विकासितम्।

बालसोर्> भारतेन विकासितम् आकाश नाम भूतल - आकाश मिसैल् शास्त्रस्य चन्दिपुरस्थात् इण्टग्रेट्टड् टेस्ट रेञ्चतः त्रिवारं परीक्षण-विक्षेपणं कृतम्। २५ कि.मी एव अस्य प्रहर परिधिः, ६० किलो मितः भारं वोढुं शक्यते च। प्रतिरोधगवेषण संस्थया (DRDO) विकसितः आकाश मिसैल् उपयुज्य शत्रुमिसैलं विमानानि च चूर्णीकर्तुं शाक्यते। 

ईजिप्तस्य प्रधानमन्त्रिणे भारतस्य विशिष्टं सम्मानम्।

कय्रो > ईजिप्तस्य प्रधानमन्त्री षरीफ् इस्मायिलस्य  कृते भारतस्य विशिष्टसम्मानम्। कय्रो राष्ट्रान्तर पुस्तकोत्सवे भारतसंविधानस्य अरबिभाषयां मुद्रितः ग्रन्थः ईजिप्तस्य प्रधानमन्त्रिणे भारतः समर्पयत्I वारद्वयस्य पुस्तकोत्सवे भारतस्य राष्ट्रान्तरसंस्था (Embassy) नाषणल् बुक् ट्रस्ट् (NBT) संस्थां प्रतिनिधीकरोति।

         पुस्तकोत्सवस्य उद्घाटनाय आगतः षरीफ् इस्मायिलः भारतस्य विपणनप्रकोष्टस्य सन्दर्शनवेलायामेव भारतसंविधानस्य अरबिभाषानुवादसमर्पणम् ।

भीकरप्रवर्तनं - आगोलसहकरणम् आवश्यकमिति भारतराष्ट्रपतिः।
 
नवदिल्ली > पठान्कोट्टे तथा पारीस् राष्ट्रे च पूर्वं संवृत्तानि भीकराक्रमणानि राष्ट्रस्वातन्त्र्यस्य आधारमूल्यानि विरुद्ध्य संवृत्तानीति भारतस्य राष्ट्रपतिः प्रणब् मुखर्जीवर्यः अभिप्रैति स्म। अतः भीकरप्रवर्तनानि  विरुध्य आगोल सहकरणम् आवश्यकम्I


भारतीयवंशजेभ्यः आस्त्रेलियायाः बहुमतिः

मेलबण् > विविध मण्डलेषु कृतानां प्रवर्तनानाम् आधारेण तृभ्यः भारतीयवंशजेभ्यः आस्त्रेलियायाः  बहुमतिः। तैः फिसिक्स्, एञ्चिनीयरिङ्, मेडिसिन्, मण्डलेषु कृतप्रयत्नानि  परिगणयन् एव पुरस्काराः दीयन्ते।  अस्य वर्षस्य (2016) आस्त्रेलियादिनाघोषवेलायां पुरस्काराः प्रख्यापिताः। एते आस्त्रेलियन्  नाषनल् यूनिवेर्सिट्टीतः एमिनन्ट् प्रोफसर् चेन्नुपति जगदीशः, न्यू सौत्त् वेयिल्सतः नेत्र वैद्यः जय् चन्द्रः, मेलबनतः दन्तविदग्धः सजीव् कोशीः च भवन्ति। फिसिक्स्, एञ्चिनीयरिड़्



-
नानो टेक्नोलजि आदि मण्डलेषु  कृताय उत्तमप्रवर्तनाय, पुनः अक्कादमिक् गवेषणं, ग्रन्थरचना, देशीय अन्ताराष्ट्रस्तशास्त्रोपदेशक स्थानेषु कृतप्रयत्नानि च आधारीकृत्य जगदीशमहोदयाय पुरस्कारस्य अर्हता अभवत्। सपादशताब्दवर्षस्य प्रवर्तनसामर्थ्यमस्ति महोदयस्य। 1985 वर्षादारभ्य नेत्रचिकित्सारंगे अन्ताराष्ट्रतले प्रसिद्धः भवति जयचन्द्रः। दन्तचिकित्सा मण्डलेषु कृतेषु  श्रेष्ठप्रवर्वतनानि परिगण्य एव कोशीमहोदस्य पुरस्कारप्राप्तिः।