OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 25, 2016

 भारतीय-संस्कृत-पत्रकारसङ्घस्य उपाध्यक्षाय पद्मश्री -

डॉ.रवीन्द्र-नागर
"हर्ष-प्रकर्षेण साम्प्रतमेतत् संसूच्यते यत् भारतीय-संस्कृत-पत्रकार-सङ्घस्य उपाध्यक्षाय सुख्याताय संस्कृत-विदुषे आचार्याय डॉ.रवीन्द्र-नागर-वर्याय ऐषमः पद्मश्री-अलङ्करण-प्रदानस्य समुद्घोषणा भारतीय-गणतन्त्रदिवसस्यस्य पूर्व-सन्ध्यावसरे भारत-प्रशासनस्य गृह-मन्त्रालयेन विहितास्ति | संस्कृत-वाङ्मयस्य भारतीय-संस्कृतेः संस्कृत-भाषायाश्च देशे विदेशेषु च सुबहु-प्रचारार्थं आचार्य-नागरः २०१२-तमे वर्षे राष्ट्रपति-सम्मान-पत्र-प्रदानेन सभाजितः आसीत् | आचार्य-नागरस्य  अनामयत्वं दीर्घायुष्यत्वञ्च कामयमानः भा.सं.प.सङ्घः शुभावसरेsस्मिन्   तं सर्वात्मना आशंसायते |"   -बलदेवानन्द सागरः-