OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 7, 2016

भवत: बलदेवानन्दसागरः।

बलदेवानन्दसागरः पत्रं प्रेषितवान्

https://i.ytimg.com/vi/sZcCGAnM-cE/maxresdefault.jpg
नवदिल्ली > संस्कृतवार्ता प्रवाचकः डा. बलदेवानन्दसागरः संस्कृताभिमानिनां प्रति पत्रं प्रेषितवान् ।
संस्कृतस्य अधिकाधिकः व्यावहारिकोपयोगः स्याद् इत्येतदर्थं केचन परामर्शाः तेन महात्मना कृताः । संस्कृतस्य सम्यक् व्यापनमेव तस्य उद्देश:। सर्वषां कृते पत्रमेतत् समर्प्यते । 


नमो नमः !
भवन्तस्तु जानन्त्येव यत् "यस्तु क्रियावान् पुरुषः स विद्वान् |" अतः वयम् आशास्महे यत्  एते अधिगताः अधिगम्यमानाः च परामर्शाः परमार्थेन कार्यान्विताः भवितारः | एतदर्थं प्रशासनेन संस्कृताभिमानिभिः च सम्भूय प्रयतनीयम् | एते परामर्शाः सन्ति- 

[१] यथाशक्यं विद्यालयेषु ,महाविद्यालयेषु ,विश्वविद्यालयेषु, पारम्परिक-पाठशालाषु च संस्कृताध्यापन-माध्यमम् अनिवार्यत्वेन संस्कृतमेव स्यात् |

[२] भाषा-विषयिण्यां शासनिक-नीतौ व्यावहारिकं प्रासङ्गिकं कालोचितं च परिवर्तनं कृत्वा सर्वाधिकं महत्वं संस्कृताय प्रदेयम् |

[३] सामाजिक-सञ्चार-माध्यमेषु संस्कृतोपयोगार्थं प्रोत्साहनं प्रोत्तेजनीयम् |

[४] यथा हिन्द्यां वा क्षेत्रीय-भाषासु वा आङ्ग्ल-भाषायां,  दैन्दिनोपयोगि साहित्यं सर्वत्र सुलभं भवति, तद्वद्  संस्कृत-भाषायामपि भवेत् | यथा भोजनावासालयेषु प्रत्येकमपि कक्षे संस्कृत-ग्रन्थ-स्थापनम्, सर्वाणि सूचनापत्राणि संस्कृत-भाषायामपि अनूदितानि स्युः |

[५] न्यूनान्न्यूनम्, एकं संस्कृत-टीवी-चेनल्, तथा च. संस्कृत-एफ़्.एम्.रेडियो वा संस्कृत-कम्युनिटी-रेडियो स्यात् | राष्ट्रिय-संस्कृत-संस्थानम्, अथ च, कश्चन अपि संस्कृत-विश्वविद्यालयः एतत् सारल्येन कर्तुं पारयति | 

[६] प्रशासन-पक्षतः स्वतन्त्रं संस्कृत-वार्त्ताभिकरणं [न्यूज़-एजेन्सी] स्थापनीयम्, यत्  हि संस्कृत-पत्र-पत्रिकाभ्यः उपादान-सामग्री-प्रेषकं सिद्ध्येत् |
इति 
भवतः बलदेवानन्दसागरः ।