OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 4, 2016

संस्कृतं लोकजेत्री भाषा - केरलराज्यपालः।

कोच्ची > क्रमबद्धायाः पाठ्यपद्धत्याः सुस्थितानां व्याकरणनियमानां च शक्त्या भुवने अपराजिता भाषा भवति संस्कृतमिति केरलानां राज्यपालः न्याय.पि सदाशिवम् अवदत्।
एरणाकुलं जनपदे तृप्पूणित्तुरा सर्वकारीय संस्कृतकलालयस्य उच्चतरविद्यालयस्य उच्चविद्यालयस्य च शताब्द्याघोषाणां समापनसम्मेलनम् उद्घाटनं कुर्वन्नासीत् राज्यपालः। संस्कृतकलालये न्यायसाहित्यव्याकरणज्योतिषाः विषयाः बिरुद-बिरुदानन्तरतले पठितुमवकाशः अस्तीति भाषायाः जागर्तेः कृते प्रयत्नः आवश्यकः इति स उक्तवान्।
  सम्मेलने मन्त्री के बाबुः अद्ध्यक्षपदमलंकृतवान्। प्रशस्ता नर्तकी डो. पद्मा सुब्रह्मण्यं विशिष्टातिथिः आसीत्।

विमानस्य यात्रावेलायां विस्फोटः, 
बहिर्पतितः यात्रिकः मृतः।

 मोगादिषु(सोमालिया) > यात्रामध्ये विमानविस्फोटनेन बहिरुद्पतितः यात्रिकः भूमौ पतित्वा मृतः। सोमालियायाः राजनगर्यः मोगादिषु राज्ये सुरक्षामार्गेण विमानं प्रतिनिवृत्तम्। एयर् बस् ए 321 विमानयात्रिकाः सर्वे सुरक्षास्थानेऽस्तीति अधिकरिदलेन विज्ञापितम्। पतितस्य यात्रिकस्य मृतशरीरं मोगदिषु राज्यातः त्रिंशत् किलोमीटर् दूरे दृष्टम्।विमानान्तर्भागस्य विस्फोटनकारणं कथमभवत् इति वक्तुं न शक्यते। ७४ यात्रिकैः सह मोगादिषु राज्यात् गतः विमानस्य भागे स्फोटनमभवत्। विमानस्य प्रतिनिवृतानन्तरमेव यात्रिकस्य असान्निध्यम् ज्ञातम्।
वनिता कर्मकराणां कलहेन विमानस्य  मार्गे भ्रंशः।

षिक्कागो >  वनिता कर्मकराणां मिथः जायमानेन कलहेन मार्गमध्ये विमानस्य गतिः अलक्षीकृता। अमेरिक्कायाः लोस् ऐञ्चल्सतः मिनिपोलीसं प्रति गच्छतासीत् विमानम्। डल्टा एयर् लैन्स् विमाने एव ताडनक्रिया अभवत्। उड्डयित्वा ४० मिनट्ट अनन्तरमेव संभवः।

पठान्कोट्ट् आवर्तिष्यते इति भीषणवचांसि।

मुसाफराबाद् > पठान्कोट्ट्  भीकराक्रमणं प्रशंस्य समानाक्रमणाय आह्वानं कृत्वा च मुम्बई भीकराक्रमणस्य सूत्रधारः हाफिस् सयीदः  आविर्भूतः।पाकधीनकाश्मीरे कस्मिंश्चित् पथसंचलने भाषमाण आसीत् जमाअत् उद्दवस्य नेता सयीदः।
काश्मीरस्य स्वातन्त्र्यं यावत् भारतं प्रति युद्धमनुवर्तिष्यते इति पथसञ्चारिणैः उद्घोषितम्।

केरलनियमसभासम्मेलनम् अद्य आरभते।

अनन्तपुरी - केरलनियमसभायाः अन्तिम सम्मेलनं अद्य राज्यपालस्य न्याय. पि सदाशिवस्य नयप्रख्यापनप्रभाषणेन आरभते। परन्तु आरोपणविधेयानां मन्त्रिणां त्यापत्राणि लक्षीकृत्य सम्मेलनं प्रक्षुब्धं स्यात्। विपक्षिदलैः नयप्रख्यापनं बहिष्कर्तुं निर्णयः अपि कृतः।