OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 8, 2016

शास्त्रमण्डलेषु नवीनाः आविष्काराः भवितव्याः- प्रधानमन्त्री।
भुवनेश्वरम् > शास्त्रमण्डलेषु नूतनाशयाः आविष्काराश्च भवितव्याः ; ते राष्ट्रप्रगत्यै अनिवार्याः इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।भुवनेश्वरे देशीय शास्त्रपठनगवेषणकेन्द्रस्य उद्घाटनं निर्वहन् भाषमाणः असीत् मोदिवर्यः।
आधुनिकसमाजः नूतनाशयेषु तेषां साक्षात्कारेषु च तत्परो भवति। अतः छात्रेषु तात्पर्यजननम् अनुपेक्षणीयमस्ति।परिस्थितिसंरक्षणे पारम्पर्येतरोर्जविनिमये च छात्राः अध्या,पकाश्च उत्सुकाः भवेयुः।भारतस्य बहिराकाशकार्यक्रमाः आगोलश्रद्धां प्राप्तवन्तः इति प्रधानमन्त्री अब्रवीत्।
  ८० वर्षात्पूर्वं दिवङ्गताय वैज्ञानिकाय लक्षं रूप्यकाणां विद्युत् स्वीकृतिः !

राञ्चि> अशीति (८०) वर्षात्पूर्वं दिवंगतं भारतस्य प्रमुख शास्त्रज्ञाय जे.सि.बोस् वर्याय एव लक्षं रुप्यकाणां दण्डः। जार्खण्डस्य वैद्युत वितरण संस्थया एव एवं सूचना प्रेषिता। ३३ वर्षस्य वैद्युतेः शुल्कम् समर्पणीयमिति निर्दिष्टम्। १९७०-२००३ वर्षेषस्य शुल्कम् १,०१८१६ इति सूचनापत्रेण ज्ञापयति। १९३७ नवंबर् मासस्य २३ दिनाङ्के एषः महोदयः दिवंगतः।
गिरिधिक् जे.सि.बोस् डिस्ट्रिक्ट् सयन्स् सेन्टर् नाम संस्थायाः वैद्युतोपयोगस्य शुल्कम् एव तत् । जार्खण्डराज्यस्य उत्भवात्पूर्वं बीहार राज्यस्य कौण्सिल् फोर सयन्स् आन्ट टेक्नोलजी नाम संस्थया विद्युत्शुल्कम् पूरितम् आसीत्I
सस्यानां जीवः अस्ति इति अन्विष्य दर्शितः भवति अनेन वैज्ञानिकेन।

आदिशङ्करस्य कुलदेवतामन्दिरे अद्य उत्सवप्रारम्भः।

कोच्ची> अद्वैतवेदान्तसंस्थापकस्य जगद्गुरुश्रीशङ्कराचार्यस्य कुलदेवतामन्दिरमिति विख्याते कालटी श्रीकृष्णमन्दिरे अष्टदिनात्मकमहोत्सवस्य अद्य शुभारम्भः।
श्रीशङ्करस्य कालं यावत् स्मारयति सर्वस्य  साक्षिरूपम् इदं च मन्दिरम्।अत्र श्रीशङ्करेणैव कुलदेवताप्रतिष्ठा कृतेति ऐतिह्यः।
  अद्य सायं अष्टवादने "कोटियेट्" इति पताकाध्वजारोहणेन उत्सवः प्रारभ्यते।फेब्रुवरी १५तमदिनाङ्के ध्वजावरोहणेन समापनं भविष्यति।श्रीमन्नारायणीय-भागवतपारायणानि, आध्यात्मिकप्रभाषणं,सोपानसंगीतं, चाक्यार् कूत्त्, पञ्चारिमेलं, नृत्तकार्यक्रमाः,बाले इति नृत्तसंगीतनाटकम् इत्यादीनि उत्सवसमारोहे अन्तर्भूय आयोज्यन्ते।


संस्कृतभारत्याः कार्यकर्तृमेलनम्।

तृश्शूर्> संस्कृतभारत्याः केरलराज्यस्य मध्यसम्भागस्य कार्यकर्तृमेलनं तृश्शूर् नगरे तेक्केमठे लक्ष्मीमण्डपे फेब्रुवरी मासे त्रयोदश (१३) दिनाङ्के शनिवासरे प्रातः दशवादनतः त्रिवादनपर्यन्तम् भविष्यति । अखिलभारतीयसङ्घटनामन्त्री श्री दिनेश् कामत् महोदयः मार्गदर्शनं करिष्यति। संस्कृतस्य प्रचाराय नूतन प्रवर्तनानि आभारतं संकृतभारत्या कृतानि सन्ति। संस्कृतस्य कृते निस्वार्थतया क्रियमाणा सर्वकारेतर संस्था भवति संस्कृतभारती।