OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 10, 2016

संस्कृतं विना मलयाळभाषायाः उन्नतिः न भविष्यति-संस्कृतछात्राः।


भाषापितुः जन्मगृहे सादरं संस्कृतछात्राः
मलप्पुरं (केरलम्) > मलयाळ भाषायाः पितुः तुञ्चत्त् रामानुजाचार्यस्य जन्मगृहं दृष्ट्वा  छात्राः विस्मिताः। वेङ्ङरा उपजिल्लायाः संस्कृत कौण्सिल् द्वारा आयोजिता  अध्ययनयात्रा भाषापितुः गृहदर्शनाय आसीत्। तत्र विद्यमानायां प्रदर्शिन्यां मलयाल भाषायाः कृते योगदानं कृतवतां महात्मनां चित्राणि लघु-जीवन-चरितानि च प्रदर्शितानि। प्रदर्शितानां सर्वानां महात्मनां सुचरिते ते संस्कृतपण्डिताः इति प्रमाणः दृश्यते। संस्कृतज्ञा: एव मलयालभाषाप्रवीणाः अभवन् इति प्रदर्शिनीतः ज्ञात्वा  छात्राः विस्मिताः।
भारतस्य गतिनिर्णयोपग्रहं भ्रमणपथं प्राप्तम् ।

चेन्नै > भारतस्य षष्ठं गतिनिर्णयोपग्रहं ऐ आर् एन् एस् एस् - १ एफ् भ्रमणपथं प्राप्य प्रवर्तनम् आरब्धम् । पि एस् एल् वि - सि ३२ इति विक्षेपणवाहनेन उपग्रहं लक्ष्यस्थानं नीतम् ।
विक्षेपणदौत्यस्य विजये प्रधानमन्त्री नरेन्द्रमोदी शास्त्रज्ञान् अभिनन्दितवान् ।
तमिल् नाडुराज्ये श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशगवेषणकेन्द्रात् ह्यः अपराह्ने उपग्रहं विक्षिप्तम्। स्थलजलाकाशमार्गेभ्यः सञ्चारेभ्यः साहाय्यं प्रददाति इति गतिनिर्णयोपग्रहाणां प्रधानदौत्यम् ।

सौद्यां जंगमदूरवाणीमण्डले अपि 'निताखत् ' नियमः।

कोच्ची > सौदीराष्ट्रे जंगमदूरवाणीवाणिज्यरंगे 'निताखत्' इति स्वदेशीवत्करणानुशासनं प्रवृत्तिपथमागच्छति जंगमदूरवाणीनां विक्रयः ,  सम्यगीकरणम् इत्यादिषु मण्डलेषु पूर्णतया स्वदेशिवत्करणमेव लक्ष्यम् । षण्मासाभ्यन्तरे एतन्मण्डलस्थान् विदेशीयान् अपाकर्तुं सौदी कर्ममन्त्रालयस्य निर्देशः अस्ति । यदि अनुशासनं प्राबल्यं भविष्यति तर्हि दशसहस्रशानां विशिष्य केरलीयानां  वृत्तयः नष्टाः भविष्यन्ति । यतः जंगमदूरवाणीवाणिज्यमण्डले ९०% भारतीयाः वृत्तिं कुर्वन्तः सन्ति। तेषु अर्धसंख्याधिकाः केरलीयाः च ।