OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 1, 2016

कोल्कत्तायाम्  उपरि-गमनागमन-सेतुः विस्रंस्य २१ मरणानि।

कोल्क्कत्ता > उत्तरकोल्कत्तायां निर्माणे वर्तमानस्य उपरि-गमनागमन-सेतोः कश्चनांशः अधः पतित्वा २१ जनाः मृताः। ६४ जनाः आहताः। नरगस्य वाणिज्यकेन्द्रे बरबसार् समीपे रबीन्द्रसरणि- के के टागोर् वीथ्यां निर्माणं पूर्तीकुर्वन् विवेकानन्द उपरिगमनागमनसोतुरेव महच्छब्देन अधःपतितः । बहूनां मार्गापणिकानां सङ्केतः तथा यानस्थानं च भवति सेतोः अधोभागः । अतः मरणसंख्या अधिकुर्वीत ।

२० - २० क्रिकेट
इम्गलण्ट् -वेस्ट् इन्डीस् अन्तिमयुद्धः।
कोच्ची - लोक २० - २० क्रिकट् स्पर्धायाः द्वितीये उपान्त्यपादमत्सरे वेस्ट् इन्डीस् राष्ट्रेण भारतं पराजितम् ।
 मुम्बय्यां वाङ्कडे क्रीडाङ्कणे सम्पन्ने मत्सरे १९३ इति धावनाङ्कलक्ष्यं अनुगतवन्तः वेस्टिन्डीसाः त्रयाणां क्रीडकानां विनष्टे कन्दुकद्वयम् अवशिष्य लक्ष्यं प्राप्तवन्तः ।५१ कन्दुकैः ८२ धावनाङ्कान् प्राप्य अबाह्यः वर्तमानः सिम्मण्स् वर्यः तेषां विजयशिल्पी । वेस्ट् इन्डीस् राष्ट्रस्य अन्त्यपादप्रवेशः द्वितीयवारं भवति ।


लाहो गोलकक्षेपास्त्र-स्फोटने मरणसंख्या ७४ अभवत्।

ईस्टर् दिने संजाते गोलकक्षेपास्त्र स्फोटने मरणसंख्या अतीव वर्द्धिताः।अतीव गुरुतरावस्थायां प्राप्तौ द्वौ अपि ह्यः लाहोर् जिल्लाआतुरालये  मृतौ। शताधिकाः अधुनापि आतुरालये चिकित्सायां सन्ति। द्विसहस्रााधिकाः आतुरालयात् प्रतिनिवृत्ताः।
मृतेषु २९ बालाः १० महिलाश्च सन्ति। क्रैस्तवानुद्दिश्य कृतः आक्रमणः  आसीत् इति आतङ्कवाद संस्थाभिः जमा अत् उर् अह्रार् इति संघटनैः सूचितम्

कानडायाः प्रधानमंत्री योगासनेषु  कुशलः

ओट्टोव> कानडायाः प्रधानमन्त्री जस्टिन् ट्रूडो कुशलात् कुशलः एव। अयं महोदयः योगासनेषु आकृष्टः सन् तस्मिन्  प्रयत्नं कृतवान् । इदानीं कठिनासनानि अपि प्रयासं विना कर्तुम् एव शक्तः अनेन महोदयेन  त्रयोदशाधिक द्वि सहस्रतमे वर्षे (२०१३) स्वस्य उत्पीठिकायां कृत मयूरासनस्य चित्राणि समूह माध्यमेषु अधिकतया प्रचरिताः सन्ति।