OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 12, 2016

संस्कृतभाषा सकल-वैज्ञानिक-विभागानाम् अध्ययनाय अनिवार्या - पि.के वारियर्। 

कोट्टक्कल्> संस्कृतं केवलम् आयुर्वेदाध्ययनस्य कृते न। सकल वैज्ञानिक-मण्डलेषु संस्कृत-भाषाध्ययनं अनिवार्यम् इति अयुर्वेदाचार्यः वैद्यरत्नं पद्मश्री पि.के वारियर् महोदयः  उक्तवान् । संस्कृतं विना आयुर्वेदाध्ययनाय केचन 'भस्मासुराः' पाठ्‌यक्रमान् विकलं कर्तुं  प्रयतन्ते। एतस्मिन् सन्दर्भे आचार्यस्य कालानुसारि स्वाभिमत-प्रकाशनं संस्कृतानुरागिणां हृदयम् कियन्मात्रम् अतोषयत् इति वक्तु मशक्यम्।
वेङ्ङ्रर उपजिल्लायाः एम्. ए.एम् यु.पि विद्यालयस्य संस्कृत-छात्रैः सह भाषमाणः आसीत्‌ सः। वरियर् महोदयस्य वचसा प्रभावितः छात्राः उच्चविद्यालये ततः उपरि च संस्कृतं पठामः इति उक्तवन्तः। तेषां प्रिय अध्यापकेन ए.वि हरीशेन सह अध्ययनयात्रां कुर्वन्तः ते मलप्पुरं जिल्लायाः सांस्कृतिकस्थानानि च सन्दर्शितवन्तः।