OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 30, 2016

 पुनरपि अमेरिकायां मोदिः

वाषिङ्टण् > स्वीयजनप्रतिनिधिसभायाः संयुक्तसम्मेलनम्‌ अभिसम्बोध्य प्रभाषणाय भारतप्रधानमन्त्रिं नरेन्द्र मोदिम् आमन्त्र्य अमेरिका। जूणमासे ८ दिनाङ्‌के सम्भाव्यमाने योगे मोदिः सभाम् अभिसम्बोध्य प्रभाषणं करिष्यतीति विश्वासः। एतदर्थं यु एस् सभाया: वक्तुः आमन्त्रणं प्रधानमन्तिणः कार्यालयेन प्राप्तम्। एवञ्चेत् अमेरिकायाः जनप्रतिनिधिसभाम्‌ अभिसम्बोध्य प्रभाषणं क्रियमाणः पञ्चमः प्रधानमन्त्री भवेत् मोदिः।


आकाशयात्रायां सुखजननम्
कान्‌बरा > सिङ्गपूरतः म्यान्मारयात्रावेलायां विमाने युवत्याः सुखप्रसूतिः। सोलेर् हितु इति नामिका युवती सो जेट् स्टार् इति नामके विमाने यात्रावेलायां पुत्राय जन्म अदात्। पुत्राय विमानस्य नाम दत्वा नामकरणमपि कृतं वर्तते।
l
मल्ल्यां निष्कासयितुं
भारतस्य अभ्यर्थना
 नवदेहली - विवादमद्यव्यापारिं विजयमल्ल्यां ब्रिटण्देशात् निष्कासयितुं भारतेन अभ्यर्थितम्। भारतस्थं ब्रिटीषस्थानपतिं केन्द्रविदेशकार्य मन्त्रालयः अभ्यर्थनां न्यवेदयत्। ब्रिटण्देशस्थेन भारतस्थानपतिना अपि विषयममुं निवेदयति स्म।

वन्ध्यभूमौ विद्युत् आन्दोलनाय सर्वकारः

जयपुरः > राष्ट्रे आतपस्य काठिन्यं वर्धमानेऽस्मिन् समये तत् उपकारप्रदं कर्तुं केन्द्रसर्वकारेण पद्धतिः आविष्क्रिता। राजस्थाने गङ्गानगर् मण्डले ४०० हेक्टर परिमितौ वन्ध्यभूमौ केन्द्रकार्षिक मन्त्रालयस्य आभिमुख्ये सोलार् पानल् संस्थाप्य २०० मेगावाट् विधुत् उत्पादयितुं केन्द्रसर्वकारेण पद्धतिः आविष्कृता। पद्धत्यै केन्द्र बीजोत्पादकसङ्घेन प्रदेशानुमतिः दत्ता।


केरळे उष्णतरङ्गः; सूर्यातपेन  त्रयः मृताः। 

कोच्ची > केरळराज्ये इदंप्रथमतया उष्णतरङ्ग इति पर्यावरणविशेषः स्थिरीकृतः। पालक्काट् कोष़िक्कोट् आदिषु जनपदेषु कतिपयदिनैः अनुवर्तमानं महत्तापं परिगणयन् केन्द्र पर्यावरणविभागाधिकृतैः एवं प्रख्यापितम्।
  ह्यः त्रयः कर्मकराः सूर्याघातेन मृताः। कोल्लं जनपदे आयूर् प्रदेशनिवासी जि. गोपिः(65) केदारे कर्षणवेलायां सूर्यातपेन मृतः। कोट्टयं जनपदनिवासी धीवरश्च साबुः(43) , कण्णूर् जनपदीयः ६८वयस्कः केरवृक्षारोहणकर्मकरश्च जोसफः सूर्यातपेन मृतावन्यौ।

केरळविधानसभानिर्वाचनं - पत्रिकासमर्पणं समाप्तम्।

अनन्तपुरी> राज्ये विधानसभानिर्वाचनार्थं प्रत्याशिनां नामनिर्देशपत्रिकासमर्पणं सम्पूर्णम्। आहत्य १६४७ पत्रिकाः समर्पिताः। पत्रिकाणां सूक्ष्मशोधना अद्य भविष्यति।
  सोमवारपर्यन्तं पत्रिकाप्रत्यर्पणं साध्यते। मेय् १६ तमदिने निर्वाचनं भविष्यति।

गुजरातराज्ये मितव्ययसंवरणम्‌ 

गन्धिनगर् >धनसम्पादन -व्ययस्थितिमनुसृत्य समूहे पराङ्मुखानां जनानां कृते संवरणाय गुजरातसर्वकारस्य निश्चयः।तेषां कृते १०% संवरणाय नियमशासनम् आविष्कर्तुं निश्चयः स्वीकृतः इति मुख्यसचिवा आनन्दी बेन् पटेल् अवदत्। शासनं मेय् १ तः साधुतां प्राप्नोति।येषां वार्षिकधनादायः ६ लक्षात् न्यूनं भवति ते संवरणार्हाः भवन्ति इति अधिकृतैः सूचितम्।

समाश्वास वचनैः सह केन्द्र सर्वकारः

नवदेहली >राष्ट्रे वैद्यपठनविषये एकीकृतप्रवेशनपरीक्षा आवश्यकी इति उच्चतरन्यायालयस्य नियमशासनोपरि केन्द्रसर्वकारस्य श्रद्धादानं वैद्यछात्राणां कृते समाश्वासप्रदम्‌। नियमशासनम् अस्मात् वर्षात् परं भवतु इति केन्द्र सर्वकारपक्षतः ए जि मुकुल् रात्तगिना उच्चतरन्यायालयं प्रार्थितम्‌। विविधैः राज्यैः संघटितानां प्रवेशनपरीक्षाणाम् असाधुत्वकरणमपि प्रतिनिवर्तनीयम् इत्यपि सर्वकारेण अभ्यर्थितम्।

प्रथमं सल्मान्, इदानीं क्रीडकाश्च।

 नवदेहली >भारतीय ओलिम्पिक्समितेः सन्नद्धप्रतिनिधि रूपेण अभिनेतुःसलमानस्य चयनं विवादात्मकम् आसीत्। क्रीडामण्डलात् बहिः प्रवर्तमानस्य एकस्य चयनम् अनुचितमेव इति प्रमुखै: अभिप्रेतमासीत् ।इदानीन्तु समितिः क्रीडामण्डलादपि प्रमुखान् निर्णेतुं निश्चयमकरोत्। तदर्थं सचिन् तेण्डुल्करः, अभिनवबिन्द्रा इत्यादयः प्रमुखाः समितेः पट्टिकायां स्थानमारूढाः इति वार्ताः प्रसरन्ति । सङ्गीतप्रतिभायाः ए आर् रहमानस्य नाम अपि उन्नीतम् इति श्रूयते।