OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 4, 2016

मोदिने सौद्यां महत्स्वीकरणम् ।

रियाद् > भारतप्रधानमन्त्री नरेन्द्रमोदी दिनद्वयात्मकसन्दर्शनार्थं  सौदिराष्ट्रं प्राप्तवान्। राष्ट्रराजनगर्यां रियादे तस्मै महत्स्वीकरणं लब्धम् ।
  रियादे किङ् खालिद् अन्ताराष्ट्रविमाननिलयं सम्प्राप्तं मोदिनं रियादराज्यपालः फैसल् बिन् वन्दर् अब्दुल् असीस् राजकुमारः , आसूत्रणमन्त्री आदिल् फखीह् , भारतस्थानपतिः अहम्मद् जावेद् इत्यादयः मिलित्वा मोदिवर्यं स्वीकृतवन्तः। ततः तत्रस्थे इन्टर् कोन्टिनन्टल् आवाससमुच्चये सविशेषक्षणितृृृन् २५० अधिकान् भारतीयान् नरेन्द्रमोदी अभिसंबोधनां कृतवान् । ऊर्ज- निक्षेप - सुरक्षाविषयेषु उभयराष्ट्रयोः मध्ये चर्चा भविष्यति ।

शतकोटिजनैः आधार-पत्रिका स्वीकृता


नव दिल्ली> कतिपय दिनाभ्यन्तरेण शतकोटि जनाः आधार पत्रिकायुक्ताः भवेयुः। एतदधिकृत्य प्रख्यापनम् अद्य दूरभाषा विभाग मन्त्रिणा रविशङ्कर प्रसादेन अद्य क्रियते। योजनेयं जेवन पूर्ती करणीया। पचनवातक समाश्वासः, छात्रवृत्तिः विरमितानां वेतनम् आदयः वित्तकोशद्वारा दातव्यम् । आधार योजना राज्यसभया अङ्गीकृता आसीत्। अनया पद्धत्या अर्हाणां कृते-समाश्वासः रुप्यकाणां लब्धि : च वित्तकोशद्वारा शक्यते।