OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 14, 2016

 पुनरपि भारतीय:           
दुबाई : -  क्रिकट् इति जनप्रियक्रीडायाः अध्यक्षस्थाने पुनरपि भारतीयस्य आरोहणम्‌।  ह्यः दुबाईराष्ट्रे संवृत्ते अन्ताराष्ट्रक्रिकट्समितेः निर्वाचनयोगे भारतीयस्य शशाङ्क्मनोहरस्य चयनं  अभवत्। ऐककण्ठेनैव अन्ताराष्ट्रक्रिकट्समितेः प्रथम स्वतन्त्राध्यक्षरूपेण शशाङ्क्मनोहरस्य चयनं कृतम्। ऐ सि सि समितेः परिष्कृतनियमानुसारं अध्यक्षस्थानं स्वतन्त्रमेकं स्थानं भवति । अत एव गतदिने शशाङ्क्मनोहरेण भारतीयक्रिकट्समितेः अध्यक्षस्थानं त्यक्तमासीत् । सर्वेभ्यः ऐ सि सि  निर्वाहकेभ्यः    तथा बि सि सि ऐ निर्वाहकेभ्यः च शशाङ्क्मनोहरः कृतज्ञतां न्यवेदयत् । अपि च क्रिकट् क्रीडायाः औन्नत्यै स्वशक्त्यनुगुणं प्रयत्नं करिष्यतीति सूचितम्।

 राष्ट्रे अवश्यसाधनानां मूल्यवर्धनम् : जनाः आशङ्कायाम् 
                  नव देहली :- राष्ट्रस्य सम्पद्घटना अतिदुर्घटावस्थां प्राप्नोति। राष्ट्रे व्यावसायिकोत्पादनं गण्यतया शोषयत् वर्तते। धनबाहुल्यं एप्रिल् मासे ५.३९% इति वर्धितम्। उत्पादने १.२% स्य न्यूनत्वमभवत्। खननमण्डले वर्धनं केवलं ०.१७% एव। मूलधनसामग्रीणाम् उत्पादने १५.४% स्य शोषणमभवत्। तथापि विद्युदुत्पादने ११.३७% स्य वर्धनमभवत्। भक्ष्यसाधनानां मूल्यवर्धनमेव धनबाहुल्यस्य कारणमित्येव आर्थिकविदग्धानाम् अभिप्रायः। तथापि भारतीय रिसर्व बाङ्‌क् अधिकारिणः आयस्यानुपाते न्यूनत्वं नैव करिष्यन्ति इत्यपि श्रूयते।


निर्वाचन-प्रचारणम् अद्य समाप्यते। 

कोच्ची > केरळे सर्वेषु मण्डलेषु  विधानसभानिर्वाचनस्य शब्दप्रचारणम् अद्य सायं षड्वादने समाप्यते। निर्वाचनप्रक्रिया सोमवासरे भविष्यति। मतगणना १९ तमे दिनाङ्के प्रचलिष्यति।
   अधुनातनशासनपक्षः कोण्ग्रस् दलनेतृत्वे यू डि एफ् पक्षः, विमतपक्षः सि पि एम् नेतृत्वे एल् डि एफ् पक्षः , तृतीयपक्षत्वेन बि जे पि नेतृत्वे एन् डि ए पक्षश्च जाज्वल्यमानं प्रचारणमेव कृतवन्तः।प्रायेण सर्वेष्वपि मण्डलेषु त्रिकोणस्पर्धायाः प्रतीतिरजायत च।

 सम्पूर्णविकसनं लक्ष्यीकृत्य केन्द्रसर्वकारः
                    नवदहली :- राष्ट्रस्य सर्वेषु मण्डलेष्वपि विकसनं लक्ष्यीकृत्य केन्द्रसर्वकारस्य परिष्करणव्यवहाराः। इदानीं राष्ट्रे उपयुज्यमानं पञ्चवत्सरपद्धतिसम्प्रदायं त्यक्वा पञ्चदशसंवत्सरात्मककालं लक्ष्यीकृत्य पद्धतीनां परियोजनाय केन्द्रसर्वकारस्य उद्यमः। राष्ट्रस्य आधारमण्डलानि केन्द्रीकृत्य विकसनप्रवर्तनानाम् आसूत्रणाय निर्देशः स्वीकृतः वर्तते। सम्पूर्णविकसनाय दीर्घकालवीक्षणम् आवश्यकम्, अत एव पञ्चवत्सरपद्धतिसम्प्रदायम् उपेक्ष्य पञ्चदशसंवत्सरात्मककालं लक्ष्यीकृत्य पद्धतीनाम् आसूत्रणं क्रियते इति सर्वकारः विशदीकरोति। तदर्थम् एकां देशीयविकसनरेखां सर्वकारपक्षतः प्रस्तौति। तत्र च सामाजिक-आर्थिक-प्रतिरोध-सुरक्षामण्डलानां प्रामुख्यं दीयते। वर्षत्रयाणामन्तरे प्रवर्तनानाम् अवलोकनमपि कृत्वा अनुबन्धान्तर-प्रवर्तनानाम् आसूत्रणमपि करिष्यति। पञ्चवत्सरपद्धतिसम्प्रदायः आगामिनि मार्च् मासे पर्यवसति।