OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 26, 2016

राष्ट्रे नूतनसर्वकाराणां  स्थानारोहणं सम्पन्नम्।

अनन्तपुरी>केरळस्य १९ तम सर्वकारः पिणरायी विजयस्य नेतृत्वे सत्यप्रतिज्ञां कृत्वा अधिकारस्थानमाप्नोत्। अनन्तपुर्यां सेन्ट्रल् स्टेडियं मध्ये सम्पन्ने सत्यप्रतिज्ञासमारोहे प्रथमं पिणरायी विजयः राज्यपालस्य पि सदाशिवं वर्यस्य समक्षे गौरवप्रतिज्ञाम् अकरोत्। तदनन्तरम् अक्षरमालाक्रमेण अन्ये १८ सामाजिकाः शपथं कृत्वा  मन्त्रिपदं प्राप्तवन्तः।
राज्यस्य नानाभागतः सहस्रशः जनाः कार्यक्रमान् वीक्षितुं स्टेडियं प्राप्तवन्तः।
 भूतपूर्वः प्रधानमन्त्री देवगौडा, सि पि एम् दलस्य सचिवमुख्यः सीतारां यच्चूरी प्रभृतयः देशीयनेतारः; वि एस् अच्युतानन्दः , उम्मन् चाण्टी, इत्यादयः राजनैतिकदलनेतारः सांस्कृतिक कलारङ्गप्रमुखाः च समारोहस्य साक्षिणः अभवन्।

वंगदेशे पुनरपि ममतासर्वकारः। 
(कोल्कोत्ता ) पश्चिमबंगालराज्ये ममता बानर्जिवर्यायाः नेतृत्वे तृणमूल् कोण्ग्रस् सर्वकारः अधिकारं प्राप्तवान्। पौनपुन्येन द्वितीयवारमेव ममतायाः मुख्यमन्त्रिपदप्राप्तिः।
 वर्णाभे समारोहे राज्यपालस्य केसरिनाथत्रिपाठीवर्यस्य समक्षे ममता शपथपाठं कृत्वा मुख्यमन्त्रिपदं प्राप्तवती। ततः ४१ मन्त्रिणश्च सत्यप्रतिज्ञां कृतवन्तः।
अस्समे सर्बानन्द सोनोवाल् सत्यप्रतिञज्ञाम् कृतवान्
तमिळ नाटु राज्ये कुमारी जयलालिता,वेस्ट् बङ्गाल राज्ये ममता बानार्जी च सत्यप्रतिञज्ञाम् कृतवत्यौ।

स्वदेशी पुनरुपयोग-विक्षेपण-वाहनमातृका अभिमानस्फूर्तिः

  ‍श्रीहरिककोट्टा> ऐ एस् आर् ओ संस्थाय़ाः साक्षात्कारपट्टिकायां प्रप्रथमबाह्याककाशपेटकस्य परीक्षणविजयः तद्दिशि व्ययन्यूनीकरणं लक्षीकरोति। तिरुवनन्तपुरं विक्रम साराभाई बाह्याकाशकेन्द्रसङ्घनेतृत्वे श्रीहरिक्कॊट्टाकेन्द्रात् परह्यः प्रातः स्वदेशी नामकं  बाह्याकाशपुनरुपयॊगीवाहनपेटकं परीक्षणदौत्यं पूर्तीकृत्य - ६५ कि.मी उपरि- वङ्गसमुद्रं प्रत्यागतं ।  एस् यू वी सदृशं -६.५ मी दीर्घा १.७५ टण् भारयुतं - पेटकं  १२ मिनिट् ७७०निमेषैः शब्दादपि ५ गुणित वेगेन अन्तरिक्षवलयं भित्वा  पश्चात् प्रत्यागतम् ।१५ वर्षाणां  श्रमेण तापव्यतियानानि सुरक्षितमतिजीव्य परीक्षणमेतत् विक्षेपणवाहनगवेषणे प्रथमपदविन्यासः तथा १०-१५ वर्षाभ्यन्तरे पूर्णविकसितं च भविष्यतीति  अधिकारिणां प्रतिक्षा । वि सा बा के निर्देशकः डा. के. शिवः पद्धतिनिर्देशकः डा. श्याममॊहनः च नेतृत्वमूढवन्तः९५ कॊटिरूप्यकाणि एव एतदर्थं व्ययः। प्रधानमन्त्री श्री नरेन्द्रमॊदी महाभागः शास्त्रज्ञान् अभिनन्दितवान्।

मोदिसर्वकारस्य वयःद्वयम्।

नवदिल्ली> केन्द्रे नरेन्द्रमोदिनः नेतृत्वे  एन् डि ए सर्वकारस्य स्थानलब्धेः अद्य वर्षद्वयं सम्पूर्णते। २०१४ मेय् २६ तमदिनाङ्के आसीत् मोदिसर्वकारस्य अधिकारप्राप्तिः। विधानसभानिर्वाचनेषु भाजपा दलस्य उत्कर्षपूर्णं प्रवर्तनं निर्वोढुम् अशक्नोत् इति आत्मविश्वासे अस्ति सर्वकारः। तथापि आर्थिकमण्डले विदेशनयरंगे च दुष्करः साहचर्यः आसीत्। समीपकाले  राष्ट्रेण अभिमुखीकृतं महती अनावृष्टिश्च सर्वकारस्य महान् प्रतिकार आसीत्। द्वितीयसंवत्सराघोषस्य अंशत्वेन शनिवासरे दिल्ल्यां कार्यक्रमाः आयोजिताः।

महानौकापनयनाय श्रमः -५ पाकिस्थानीय नाविकोद्योगस्थानां मृत्युदण्डः।

इस्लामबादः>इस्लामिकराज्य- ऐ एस् - सम्बन्धिनां नाविकोद्योगस्थानां नाविक-मन्त्रालयेन मृत्युदण्डः विहितः। अमरीक्कायाः नाविकसेनायाः महानौकानाम् आक्रमणाय पाकिस्थानीय-युद्धविमानं पी एन् एस् सुल्फिकर् अपनयनश्रमायैव दण्डः। सब् लफ्. हमाद् अहमद तथा चत्वारः उद्योगस्थाश्च दण्डिताः। कराच्ची नाविकमहानौकाशालायां २०१४ तमस्य सप्तम्बर् मासस्य षष्टे-दिने एतेषामेव नेतृत्वे आक्रमणं प्रवृत्तमासीत्। इस्लामिक-राज्यसम्बन्धः, कलापः, गूढालोचना, नौकाशालायुधानां अपहरणम्  इत्यादि दुष्प्रवृत्तीनामेव  दण्डः। आक्रमणाभ्यन्तरे द्वौ आतङ्कवादिनौ हतौ तथा पञ्च कारागारे प्रवेशिताश्च।

मल्यस्य सङ्केतः दातव्यः इति न्यायालयः।

हैदराबाद् > आचीकाविषये अपराधित्वेन विद्यमानस्य विजयमल्यस्य इदानींतनसङ्केतः लभ्यमानः भवितव्य इति हैदराबाद् न्यायालयेन आदिष्टम्। १२ कोटि रूप्यकाणां धनादेशविषये हैदराबाद विमाननिलयसंस्थया उन्नीतम् अभियाचनमनुसृत्यैव न्यायालयस्य आदेशः।