OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 26, 2016

 मेक् इन् इन्ट्या पद्धत्या वैदेशिकनिक्षेपे महान् लाभः
नवदहली > आगोलस्तरे साक्षादेव वैदेशिकनिक्षेपं सम्पादितेषु राष्ट्रेषु मेक् इन् इन्ट्या पद्धत्या  भारतस्य महान् लाभः। आगोलस्तरे वैदेशिकनिक्षेपः१.७६ ट्रिल्यण् इति उन्नतिम् प्रापयत्। तत्र ४४ बिल्यण् निक्षेपः भारतम् एव आगतः।२००८ तमे वर्षे प्राप्तं ४७ बिल्यण् एव मण्डलेऽस्मिन् भारतस्य रेकोर्ड।

६९ संवत्सराणां प्रतीक्षा-बस्यानसेवनम् आरब्धम्
 डेराडूण् > ६९ संवत्सराणां दीर्घां प्रतीक्षां समाप्य उत्तराखण्डे चमोली जिल्लायाः सिल्पट्टा ग्रामः। दीर्घस्याः प्रतीक्षायाः अन्ते ग्रामे बस्यानसेवनम् आरब्धम्। प्रधानमन्त्रिणः ग्रामीणसडक् योजना पद्धत्याम् अन्तर्भाव्य एव ग्रामस्य विविधानां गतागतमार्गाणां निर्माणं पूर्तीकृतम्।

संस्कृतनाटकाचार्यः कावालं नारायणप्पणिक्कर् महाशयः कालयवनिकां अन्तरधात्।  
                         तिरुवनन्तपुरम् > नाटककलायाः आचार्यः श्री कावालं नारायणप्पणिक्कर्   ह्यः रात्रौ दिवड़्गतः।  88 वयः पर्यन्तं नाटककलायाःनिदेशकः आविष्कर्ता प्रायोजकः च आसीदयं महाभागः। 1961 तमे संवत्सरे केरळसड़्गीतनाटक अकादमी-संस्थायाः अध्यक्षपदमलड़्कृतवान्।  संस्कृतभाषायां प्रसिद्धे भासनाटकचक्रे  विद्यमानानानां नैकानां नाटकानां  रङ्गाविष्कारः महानुभावस्यैतस्य निदेशत्वेन सफलतां  प्राप्नोत्। संस्कृतनाटकप्रेक्षकाणां अमूल्यनिधिः एव एतस्य देहवियोगेन  नष्टभूतः।  चलनचित्रमण्डलेषु प्रगल्भाः मोहनलालप्रभृतयः अस्य प्रोत्साहनेन संस्कृतनाटकेषु भागम् ऊढवन्तः। 2007 तमे पद्मभूषणेन 2009 तमे वल्लत्तोल् पुरस्कारेण चायमादृतः। भासनाटकानां रङ्गसज्जीकरणेन आविष्कारेण च अयं महात्मा संस्कृतचित्तानां हृदि चिरं भासते  नात्र  सन्देहलेशोऽपि।

 भारतस्य प्रश्नोत्तरीकर्ता दिवङगतः
कोल्कत्ता > भारतस्य प्रश्नोत्तरीकर्ता इति विख्यातः सामूहिकप्रवर्तकः नील् ओब्रियन् दिवङगतः। पञ्चाशत् वर्षेभ्यः पूर्वं प्रश्नोत्तरी इति नूतनः बौद्धिकविनोदः जनकीयं कर्तुं प्रयत्नं कृत्वा प्रश्नोत्तरीकर्ता इति नाम्ना विख्यातः सः महोदयः आङ्गल-भारतसमूहस्य नेता च आसीत्। ८२ वयस्कः सः समीपकाले वार्धक्यसहजैः आतुरैः पीडितः आसीत्।भारतस्य राष्ट्रियसामूहिकमण्डलस्य सजीवप्रवर्तकः सः महोदयः एकवारं लोकसभायां वारत्रयं बङ्गाल् नियमनिर्माणसभायां च जनप्रतिनिधिः आसीत्।


उत्तरभारतराज्येषु वृष्टिःशक्तिं प्रापयति

 नवदहली> अग्रिमचतुर्भिः दिवसैः उत्तरभारतस्य केषुचित् राज्येषु वृष्टिः शक्ता भविष्यतीति परिस्थितिनिरीक्षणकेन्द्रम्। राजस्थाने वर्षाकालस्य आरम्भकतया महती वृष्टिरेव अनुभूयते। चतुर्भिः दिवसैः गुजरात्, उत्तरप्रदेशः, मध्यप्रदेशः, हरियाणा, उत्तराखण्ड्,हिमाचलप्रदेशः, पञ्जाब्, चण्डीगड् इत्यादिषु राज्येषु महती वृष्टिः भविष्यतीति परिस्थितिनिरीक्षणकेन्द्रेण सूचना दत्ता वर्तते।

ब्रेक्सिट्" अनुसृत्य  "डेक्सिट्" अपि।
नवदिल्ली - दिल्ली अपि पूर्णराज्यपदवीम् अपेक्षते इति विषये ब्रिट्टनस्य इव हितपरिग्रहणं अचिरादेव करिष्यताति दिल्ली मुख्यमन्त्री अरविन्द् केज्रिवालेन उक्तम्। एतद्विषयकं देयकं ए पि पि सर्वकारेण प्रकाशितमासीत्।
  जूण् ३० पर्यन्तं जनानां मतप्रकाशनवेला अस्ति। दिल्ल्यां तन्त्रप्रधानमण्डलानि विहाय एव पूर्णराज्यपदवीं प्रति सर्वकारस्य प्रयत्नः।

काश्मीरे सि आर् पि एफ् वाहनव्यूहं प्रति भीकराक्रमणं 
- अष्ट सैनिकाः हताः।
श्रीनगरं - जम्मुकाश्मीरे पुल्वामजनपदे पाम्पोर् प्रदेशे केन्दीयार्धसैनिकविभागस्य (सि आर् पि एफ्) वाहनव्यूहं प्रति लष्कर् ई तोयबा भीकरैः कृते भुशुण्डि आक्रमणे अष्ट सैनिकाः हताः; एकविंशतिः व्रणिताः। सेनायाः प्रत्याक्रमणे द्वौ भीकरावपि हतौ।
    भीकराः पाकिस्तानीयाः इति प्राथमिकदेहपरिग्रहेण प्रत्यभिज्ञातम्।
  श्रीनगर-जम्मु देशीयवीथ्यां ह्यः सायं ५.५० वादने आसीत् आक्रमणम्। लात्पोरस्थानात् परिशीलनानन्तरं प्रत्यागच्छन्नासीत् षड्वाहनेषु सैनिकसंघः।

विद्यालयपाठ्यपद्धत्याम् आयुर्वेदः भवितव्यः - केरळस्य शिक्षामन्त्री।
तृश्शिवपेरूर् - केरलस्य सार्वजनीनविद्याभ्यासपद्धत्याम् आयुर्वेदम् अन्तर्भावयितुं सर्वकारः प्रतिज्ञाबद्ध इति शिक्षामन्त्री सि रवीन्द्रनाथः उक्तवान्।
  आयुर्वेद औषधनिर्मातृसंस्थायाः आयुर्वेदचिकित्सालयप्रबन्धकसंघस्य च नेतृत्वे आयोजितायां बोधवत्करणसंगोष्ठ्याम् उद्घाटनभाषणं कुर्वन्नासीत् शिक्षामन्त्री। यू पि एस् सि संस्थायाः परीक्षासु आयुर्वेदम् ऐच्छिकविषयरूपेण निबद्ध्नातुं सम्मर्दं करिष्यतीति तेनोक्तम्।

'मन् की बात्' श्रद्धेयांशैः सह मोदी।
 नवदहली >  प्रधानमन्त्रिणा नरेन्द्रमोदिना आकाशवाणीद्वारा क्रियमाणे 'मन् की बात् 'इति प्रतिमासकार्यक्रमे आयकरसमर्पणमधिकृत्य नूतनम् आह्वानं कृतम्। वार्षिकधनसम्पादनमधिकृत्य याथार्थ्यं गूढतया परिपाल्यमानानां जनानां कृते तत् प्रकाशयितुम् अन्तिम: अवसरः सितंबर् ३० पर्यन्तं दीयते इति प्रधानमन्त्रिणा उक्तम्। ततः पूर्वमेव आयस्य विषये याथार्थ्यं प्रकाश्य दण्डनव्यवहारेभ्यः मोचनं स्वीकर्तुं मोदिना आह्वानं कृतम्। सितंबर् ३० अनन्तरम्  आवश्यकरेखाः विना परिपाल्यमानस्य धनसम्पादनस्य उपरि दण्डनव्यवहारं स्वीकर्तुं आयकरमन्त्रालयस्य सम्पूर्णाधिकारः वर्तते इत्यपि स: अवदत्। अपि च स्वप्रभाषणे ऐ.एस्. आर्.ओ संस्थायाः नूतनविजयाय अभिनन्दनमपि तेन कृतम्।

यूरो २०१६- पोर्चुगल्, फ्रान्स् च अष्टगणचक्रे।
लेन्ट् > यूरो २०१६ मध्ये क्रोयेष्यां जित्वा क्रिस्ट्यानो रोनाल्डस्य पोर्चुगल् संघः अष्टगणचक्रं प्राविशत्। क्रीडायामस्यां परिमितसमये लक्ष्यम् उन्नीय एकः श्रमः अपि द्वयोरपि सङ्घयोः पक्षतः नासीत्। अधिकसमये एव पोर्चुगल् दलेन लक्ष्यं प्राप्तम्।क्रीडायां पोर्चुगलेन १-० इत्यंशे जयः प्राप्तः।अपरस्यां क्रीडायाम् अयर्लन्ट् दलं जित्‍वा फ्रान्स् दलमपि अष्टगणचक्रं प्राविशत्। फ्रान्स् दलाय अन्टोणियो ग्रीस्मान् वारद्वयं लक्ष्यं प्राप्तवान् ।क्रीडायामस्यां फ्रान्स् दलेन २-१ इति अंशे विजयः प्राप्तः।

क्षेपणायुधसाङ्गेतिकविद्यानियन्त्रणसङ्घे भारतस्य प्रवेशः अचिरादेव
नवदहली > एन् एस् जि मध्ये प्रवेशः न लब्धः चेदपि  क्षेपणायुधसाङ्गेतिकविद्यानियन्त्रणसङ्घे भारतस्य प्रवेशः सुसाध्यः एव। अनेन आयुधनिर्माणाय व्यापाराय च नूतनाः मार्गाः आविष्कर्तुं शक्यन्ते। एम्‌ टि सि आर् सङ्घे प्रवेशनाय योग्यतापत्रं  विदेशकार्यदायित्वं वहन् कार्यदर्शी एस् जयशङ्करः श्वः एव समित्यै समर्पयिष्यति। अनेन भाविकाले एन् एस्‌ जि, आस्ट्रेलिया सङ्घः, वासेनर् अरेञ्ज्मेन्ट् इत्यादिषु सङ्घेषु प्रवेशनं सुकरमिति विदग्धाः नयतन्त्रज्ञाः अभिप्रयन्ति।

ऋग्वेदपारम्पर्यम्-पोलिष् भाषायां ग्रन्थः
कोषिकोट् > केरलेषु नम्पूतिरिसमुदायस्य ऋग्वेदपारम्पर्यम् अधिकृत्य एकः गवेषणग्रन्थः पोलिष् भाषायां प्रकाशितः। पोलिष् सर्वकारः एव प्रकाशकः। पोलण्ट् राष्ट्रस्य क्राकोवस्थस्य जागिलोणियन् विश्वविद्यालयस्य इन्टोलजी संस्कृतविभागस्य अध्यक्षः डा.सेसारी गेलेविक्स् एव ग्रन्थकर्ता। कोषिकोट् सैबर् विदग्धः डा.विनोद् भट्टतिरिः चित्रकारः मदनः च सहायकौ भवतः। " भारतस्य सजीवाः ऐतिहासिकाः " इति परम्परायाः एका कृतिः भवति इयम्। ग्रन्थकारेण  डा.विनोदस्य भवनम् आगत्य ग्रन्थस्य प्रतिकृतीः दत्ताः।

अञ्जू बोबी जोर्ज केन्द्रसमित्याम्
 नवदहली > केन्द्रीयकायिकमन्त्रालयस्य "खेलो इण्ट्या" पद्धतेः देशीयनिर्वाहकसमित्‍याम् अञ्जू बोबी जोर्ज अपि। केन्द्रीयकायिकमन्त्रालयस्य कार्यदर्शी एव समित्याः अध्यक्षः। क्रीडामण्डलात् पुलेला गोपीचन्दः अपि समित्यां वर्तते। पञ्चायत् स्तरादारभ्य छात्राणां युवकानां च कायिकमण्डलं प्रति उन्नयनमेव पद्धतेः प्रमुखं लक्ष्यम्। तदर्थं २०२० अभ्यन्तरे कायिमण्डलस्य आधारसौकर्यविकसनं कायिकसञ्चयानां निर्माणं च पूर्तीकरिष्यतीति कायिकमन्त्रालयेन सूचितम्।