OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 21, 2016

लोक अद्य योगे व्यापरति। 
 कोच्ची - अद्य योगदिनम्। भारतस्य सांस्कृतिकपैतृकम् उद्घुष्य लोके सर्वत्र अद्य योगदिनत्वेन आचरति। जूण् २१ अन्ताराष्ट्रीय योगदिनत्वेन आचरितुम् ऐक्यराष्ट्रसभायाः निर्णयानन्तरं द्वितीयं योगदिनमेव अद्यतनम्। चण्डीगड् प्रविश्यायां क्यापिटोल् कोम्प्लक्स् मध्ये आयोज्यमाने कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी भागभागित्वं करिष्यति।

केन्द्रीयविश्वविद्यालयेषु योगस्य अध्ययनम् आरभ्यते ।
    नवदहली >राष्ट्रे षट्सु केन्द्रीयविश्वविद्यालयेषु अग्रिममासादारभ्य योगः पाठ्यपद्धत्याम् अन्तर्भावयिष्यतीति Image result for indian yogaकेन्द्रमानवविभवशेषिमन्त्रालयः । शरीरिकं मानसिकं च आरोग्यं लक्ष्यीकृत्यैव केन्द्रसर्वकारस्य नवीना पद्धतिः। विद्यालयेषु तथा विश्वविद्यालयेषु च योगापठनम् अनिवार्यमेव इति मोदीसर्वकारेण उन्नीतमासीत्I विश्वभारती विश्वविद्यालयः , कासरगोडे केन्द्रीयविश्वविद्यालयः , मणिप्पूर् केन्द्रीयविश्वविद्यालयः, उत्तराखण्ड् हेंवती नन्दन् बहुगुणगर्वाल् विश्वविद्यालयः, राजस्थान् विश्वविद्यालयः, इन्दिरागांन्धी नाषणल् ट्रैबल् विश्वविद्यालयः इत्यादिषु केन्द्रीयविश्वविद्यालयेषु अग्रिममासादारभ्य योगपठनम् आरब्धुं कुलपतिभ्यः केन्द्रमानवविभवशेषिमन्त्रालय अध्यक्षया स्मृती इरानी महोदयया निर्देशः दत्तः अस्ति।

यात्रानुवादपत्रम्- केन्द्रसर्वकारस्य नूतननिर्देशः।
           नवदहली > यात्रानुवादपत्रं लब्धुं केन्द्रसर्वकारपक्षतः नूतननिर्देशः आगत्। यात्रानुवादपत्रलघूकरणसम्बन्धविषये एव विदेशकार्यमन्त्रालयेन निर्देश: दत्तः वर्तते। तदनुसृत्य यात्रानुवादपत्रं लब्धुम् आवश्यकानां रेखाणां समर्पणेन आरक्षकप्रमाणीकरणे अपि आनुकूल्यं लभ्यते। नूतननिर्देशानुसारं यात्रानुवादपत्रं लब्धुम् आधार् कार्ड, प्रत्यभिज्ञानपत्रं , पान् कार्ड इत्यादीनां रेखाणां मातृकाः समर्पयितव्या: इति विदेशकार्यसचिवा सुषमा स्वराजः ह्यः अवदत्।

कृत्रिमा वृष्टिः-भारतराष्ट्राय चैनाया: साहाय्यवाग्दानम्।
    बैजिङ् : >अनावृष्टिम् अनुभूयमानेषु प्रदेशेषु कृत्रिमरीत्या वृष्टिं वर्षयितुम् आवश्यकं साङ्केतिकसाहाय्यं दातुं सन्नद्धमिति चैना। भारते महाराष्ट्राराज्ये अनावृष्टिम् अनुभूयमानेषु प्रदेशेषु कतिपयदिनेभ्यः पूर्वं चैनायाः शास्त्रज्ञाः सन्दर्शनं कृतवन्तः स्म। तैः कृतस्य पठनस्याधारेण एव २०१७ तमे उष्णकाले कृत्रिमवृष्ट्याः कृते चैनायाः साहाय्यवाग्दानं प्रख्यापितं वर्तते।

आणवसामग्री-वितरणसङ्‌घे अङ्गत्वम् -भारतस्य प्रतीक्षा: वर्धन्ते।
         नवदहली >आणवसामग्रीवितरणसङ्‌घे अङ्‌गत्वसम्पादनाय भारतस्य प्रयत्नादिकं लक्ष्यं प्रापयत् वर्तते। अमेरिका सदृशा: विश्वराष्ट्रा: भारतस्य अङ्गत्वाय अनुमतिं प्रख्यापितेऽस्मिन् समये चैनाया: आनुकूल्यमेव इदानीं मुख्या समस्या वर्तते। एतत् परिहर्तुं चैनया सह अनुरञ्जनचर्चां कर्तुं भारतविदेशकार्यनिर्देशकेन एस्. जयशङ्‌करेण कृतं रहस्यसन्दर्शनं विजयं प्राप्स्यति इति विश्वासः । विदेशकार्यसचिवया सुषमास्वराजमहोदयया अपि एतत् स्थिरीकृतम् ।

 रिसर्वबाँक् अध्यक्षस्थानम् - पट्टिकायां प्रमुखाः।
     नवदहली >आगामिनी सितम्बर् मासे रघुराम् राजस्य स्थानत्यागेन आगम्यमाने अवसरे अध्यक्षस्थानं प्रति परिगण्यमानेषु नामसु आर्थिकविदग्धाः सहिताः प्रमुखाः अन्तर्भूता: । तेषु मुख्यपरिगणना एस् बि ऐ अध्यक्षायै अरुन्धती भट्टाचार्यायै इति सूचना । आर्थिकविदग्धः राकेज् मोहन् , अशोक् लहिरी, विजय् केल्कर् , आर् बि ऐ नियुक्ताधिकारी उर्जित् पट्टेल् , भूतपूर्वनियुक्ताधिकारी सुबीर् गोकरन् , अशोक् चौला इत्यादयः प्रमुखाः पट्टिकायाम् अन्तर्भूताः इति सूचना: आगताः। उभयसम्मतपत्रस्य नवीकरणाय तात्पर्यं नास्तीति रघुराम् राजेन प्रख्यापितमासीत्। अत एव आर् बि ऐ अध्यक्षस्थाने नूतनस्य आरोहणं निश्चितमेवास्ति।

विख्यातः चलनचित्रकारः पोल् कोक्स् दिवङ्गतः
मेल्बण् > विख्यातः आस्ट्रेलिया देशीयः चलनचित्रकारः दिवङ्गतः।आस्ट्रेलियायां स्वतन्त्रसिनेमायाः पिता इत्येव सः व्यवह्रियते। १८ चलनचित्राणि,      ७ आधारसम्बन्धिचलनचित्राणि, ११ह्रस्वचित्राणि च तेन कृतानि वर्तन्ते। अनेके अन्तःराष्ट्रपुरस्कारा: तेन प्राप्ताः। सप्तदशतमं केरला अन्तःराष्ट्रचलनचित्रोत्सवे सः पुरस्कारनिर्णयसमितेः अध्यक्षः आसीत्।

पात्रियार्कीस् बावां प्रति आत्माहुतिसन्नद्धस्य आक्रमणम्।

दमास्कस् >सिरियन् ओर्तडोक्स् सभायाः परमाध्यक्षः परिशुद्धः इग्नात्तियोस् अप्रें बावाद्वितीयः जन्मदेशे आत्माहुतिसन्नद्धस्य आक्रमणात् रक्षितः। उत्तरपूर्वसिरियायां खामिष्लि जनपदे  बावावर्यस्य खातिनामके  जन्मग्रामे रविवासरे आसीत् स्फोटनम्।  स्फोटने त्रयः सुरक्षासैनिकाः हताः।
  खात्यां सेय्फो गणहत्यायां मृतानामनुस्मरणाय आयोजिते प्रार्थनासम्मेलने भागभागित्वं कुर्वन्नवसरे एव आक्रमणम्।