OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 16, 2016

राकेष् कुमार् चतुर्वेदी सि बि एस् ई अध्यक्षः। 
नवदिल्ली > मध्यप्रदेशतः १९८७ संवत्सरपरिशीलिताङ्गः (cadre) राकेष् कुमार् चतुर्वेदी सि बि एस् ई अध्यक्षपदे केन्द्रसर्वकारेण नियुक्तः।


केरळात् अप्रत्यक्षाः परिवाराः कुत्रगताः? 
नवदिल्ली >केरळात् अप्रत्यक्षाः परिवाराः भीकरसंस्थाम् इस्लामिक् स्टेट् इत्याख्यां प्राप्तवन्तः इति सन्देहमधिकृत्य विदेशकार्यमन्त्रालयस्य सकाशे कापि सूचना नास्तीति विदेशकार्यवक्त्रा विकास् स्वरूपेण उक्तम्। अयं विषयः सुरक्षासेनया अन्वेष्टव्य इति च तेनोक्तम्।

फ्रान्स् देशे पुनरपि भीकराक्रमणम् - ८४ मरणानि। 
नीस् - फ्रान्स् राष्ट्रस्य नीस् नामके समुद्रतटनगरे देशीयदिनाघोषाणां मध्ये जनसञ्चयं प्रति लोरियानं बलेन चालयित्वा चतुरशीति जनान् अमारयत्। शताधिकाः जनाः आहताः। तेषु ५० जनानाम् अवस्था गुरुतरेण वर्तते।
   ३१ वयस्कः  टुणीष्या देशीयो भवति आक्रमणकारी। अतिशीघ्रमागतं ट्रक् यानं जनान् घट्टनेन पातयित्वा किलोमीटर् द्वयपरिमितं सञ्चरति स्म इति दृक्साक्षिभिरुक्तम्।
भीकराक्रमणं भवति नीस् प्रदेशे संवृत्तमिति फ्रान्स् राष्ट्रपतिः  अवोचत्।

अरुणाचले  नाटकीयव्यवहारः - पेम खण्डुः नूतनमुख्यमन्त्री। 
नवदिल्ली >अरुणाचलप्रदेशे नाटकीयव्यवहारेण सर्वोच्चन्यायालयेन  प्रत्यानीतः कोण्ग्रस् सर्वकारः नेतृत्वस्य नाटकीयव्यवहारस्य चर्चायाः चान्ते प्रतिसन्धिं परिहृतवान्। इदानींतनमुख्यमन्त्रिणं नबां तुक्कीवर्यं परिवर्त्य युवनेतारं पेमा  खण्डुं विधानसभानेतृरूपेण चित्वा ४४ कोण्ग्रस् सामाजिकानां समर्थनं दृढीकृतम्। 
   विमतसामाजिकानाम् अभिमतं परिगणय्य एव नेतृत्वपरिवर्तनम् अजायत।  कोण्ग्रस् सामाजिकाः राज्यपालं समेत्य नूतननेतरि स्वेषां सहयोगं समर्थितवन्तः।  अतः विश्वासमतगणना न स्यात्।