OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 24, 2016

 भारतं प्रति हाफिस् सयीदस्य युद्धभीषणिः।
                        इस्लामाबाद्  > भारतं युद्धाय आह्वानं कृत्वा पाकिस्तानस्थस्य जमात्-उद्-दवा इति आतङ्गवादसङ्घस्य नेता हाफिस् सयीद्। भारतेन काश्मीर् समस्यानां परिहाराय एस् ऐ एस् गीलानिनः चत्वारः निर्देशाः अङ्गीकरणीयाः अथवा युद्धाय सज्जं भाव्यम् इत्येवम् आह्वानं कृत्वा हाफिस् सयीदस्य कानिचनदृश्य-मुद्रिकांशः प्रत्यक्षीकृतानि। विघटनवादिनां नेत्रा २००८ तमस्य मुम्बय् आतङ्गवादाक्रमणस्य मुख्य सूत्रकारः इति कथ्यमानया च आसिया अन्त्राबिया सह तथा सैनिकैः हतेन बर्हान् वानिना च सह बन्धुत्वमस्तीत्यपि दृश्य-मुद्रिकांशद्वारा  सूचयति सः। प्रमुखवार्ताप्रेषणसङ्घेन ए एन् ऐ द्वारा एव दृश्य-मुद्रिकांशः प्रत्यक्षीकृताः वर्तन्ते।

तात्कालिककर्मचारिभ्यः सवेतना प्रतिवारनिवृत्तिः।
                      नवदिल्ली> येषु कार्यालयेषु प्रतिसप्ताहे पञ्च प्रवृत्तिदिनानि सन्ति तत्रत्येषु तात्कालिककर्मचारिभ्यः एकदिवसीया सवेतननिवृत्तिः दातव्येति केन्द्रसर्वकारेण आदिष्टम्। इदानीं प्रतिसप्ताहे षट्दिनप्रवृत्तियुक्तेषु कार्यालयेषु एव एकदिननिवृत्तिः अङ्गीकृता। तस्य परिवर्तनं कर्तुमेवायं निर्णयः।

अफ्गानिस्ताने आत्मघाति आक्रमणं - एकषष्ठि जनाः हताः।
                       काबूल्>अफ्गानिस्तानस्य राजधान्यां काबूलनगरे न्यूनपक्षीयाणां षियाविभागानां पथसञ्चलनं प्रति संवृत्ते आत्मघात्याक्रमणे ६१ जनाः मृताः द्विशताधिकं जनाः आहताः। आक्रमणस्य उत्तरदायित्वं आगोलभीकरसंस्थया इस्लामिक् स्टेट् इत्यनया स्वीकृतम्। षिया हसारविभागः अधिकतया अधिवसति प्रदेशे एव स्फोटनं संवृत्तम्। तुर्कमेनिस्तान देशात् काबूल् प्रति स्वकीयावासमण्डलेन आगच्छत्याः ५०० के वि   विद्युत्प्रसारणसरण्याः गतिः परिवर्तनीया इत्यभियाच्यमानम् आसीत् पथसञ्चलनम्।