OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 27, 2016

 इरों शर्मिलायाः षोडशवर्षाणां निराहारसमरं पर्यवसति।
 नवदहली > मणिप्पूर् राज्यस्य समरनायिका इरों शर्मिला षोडशवर्षाणां स्व ऐतिहासिकं निराहारसमरं समाप्य मणिप्पूर्  निर्वाचनप्रक्रियायां श्रद्धां ददाति। तदर्थम् आगस्त् ९ दिनाङ्‌के निराहारसमरं समापयिष्यतीति तया सूचितम्। किन्तु स्वराष्ट्रीयदलं किमिति वक्तुं सा सन्नद्धा नाभवत्। मणिप्पूर् राज्ये सैनिकदलाय दत्तः सविशेषाधिकारः अफ्‌स्पा प्रतिनिवर्तनीय: इति प्रख्याप्य २००० नवंबर् २ दिनाङ्के एव इरों शर्मिलया निराहारसमरः आरब्धः। सर्वकारपक्षतः प्रस्तुत-समस्यापरिहाराय अनुकूल-प्रतिकरणाभावे एव निर्वाचनरङ्गप्रवेश: इति ४४ वयस्कया तया सूचितम्।

कुप्वारायां पाक् आतङ्गवादी बन्धने।
  श्रीनगर् > काश्मीरे कुप्वारायां बन्धित:आतङ्गवादी पाक् देशीय: इति केन्द्र आभ्यन्तरसहसचिवेन हन्सराजगङ्‌गाराम् आहिर् महोदयेन सूचितम्। भारतस्य युद्धविरामप्रक्रियाणाम् उपरि पाकिस्थानेन क्रियमाणं सर्वमपि विध्वंसकप्रवर्तनादिकं भारतसेनया अवश्यं प्रतिरोधयिष्यतीति तेन संयोजितम्। अद्य प्रातः नौगं मण्डले भारतसेनया सह संवृत्‍ते संघर्षे एकः बन्धितः, चत्वार: आतङ्गवादिनः हताः च आसन्।

 lSRO उपरि अन्ताराष्ट्रन्यायालयात् प्रत्याघातः।
   नवदहली > विवादे आन्ड्रिक्स्-देवास् विनिमयसम्बन्धे अन्याये lSRO संस्थां प्रति हेग् मध्ये प्रवर्तमानस्य अन्ताराष्ट्रन्यायालयस्य दण्डनव्यवहारः। १०० कोटि डोलर् धनं दण्डनव्यवहारत्वेन प्रख्यापितम् इति माध्यमप्रवर्तकाः सूचयन्ति। भारतस्य बहिराकाशसंस्थायाः वाणिज्यविभागः भवति आन्ड्रिक्स्। विभागोऽयं बङ्गलुरु केन्द्रीकृत्य प्रवर्तमानया देवास् इति संस्थया सह कृतस्य स्पेक्ट्रं विनिमयस्य असाधुत्वेन आरब्धे अन्याये एव इदानीम् अन्ताराष्ट्रन्यायालयस्य कल्पना आगता वर्तते।

 दक्षिणभारतस्य बृहत्तमा मृगशाला तृश्शिवपेरूरे।
                 तृश्शिवपेरूर् (केरळम्) > दक्षिणभारतस्य बृहत्तमा मृगशाला वर्षद्वयाभ्यन्तरे  तृश्शिवपेरूरे पूर्तीकरिष्यतीति सर्वकारः। मृगशालायाः निर्माणप्रवर्तनानि षड्मासाभ्यन्तरे आरप्स्यन्ते इति वनविभागसचिवः के राजुः कृषिसचिवः वि एस्‌ सुनिलकुमारः च सर्वकारपक्षतः अवदताम्। ३३६ एकर् परिमितौ वनभूमावेव मृगशाला निर्मीयते। प्रारम्भनिर्माणप्रवर्तनेभ्यः १५ कोटि रुप्यकाणि दीयन्ते। प्रारम्भनिर्माणपूर्तीकरणाय १५० कोटि रूप्यकाणां व्ययः निश्चितः वर्तते।

 प्रथमपुरुषं  प्रशंस्य प्रधानमन्त्री।
 नवदहली > राष्ट्रस्य प्रथमपुरुषस्य पदवीं निर्वहन्तं प्रणबकुमारमुखजीं प्रशंस्य प्रधानमन्त्री नरेन्द्रमोदी। नवदहल्याः राजनैतिकमण्डले नवमुखस्य स्वस्य मातृकापुरुषः भवति राष्ट्रपतिः प्रणबकुमारमुखजीं महोदयः इति प्रधानमन्त्रिणा नरेन्द्रमोदिना अभिप्रेतम्। राजनैतिकमण्डले स्व रक्षिता तथा मार्गदर्शकश्च भवति 'प्रणाब् भाई' इति मोदिना उक्तम्। प्रणबकुमारमुखर्जी महोदयः राष्ट्रस्य प्रथमपुरुषस्य पदवीं प्राप्य वर्षचतुष्टयम्‌ अभवत्।

 वन्यजीविकेन्द्रे वनिताः व्याघ्रेण गृहीताः, एका निहता।
बीजिंग्> चीनादेशे वन्यजीविसंरक्षणकेन्द्रं सन्द्रष्टुमागताः वनिताः व्याघ्रैः दंशिताः। एका हता। बीजिङ्नगरे बदालिङ् वन्यजीविसंरक्षणकेन्द्रे कार् यानादव रूढवत्यः महिलाः व्याघ्राणाम् आक्रमणविधेयाः अभवन्। अत्र सञ्चारिणः कार् याने सञ्चरन्तः मृगान् निरीक्षणं कर्तुंम् अर्हन्ति। यानाद्बहिः गन्तुम् अनुज्ञा नास्ति। किन्तु यानाद्बहिर्गतामेकां झटित्येव व्याघ्र अग्रहीत्। तां रक्षितुं बहिः प्राप्तामन्याम् अन्यः कश्चन व्याघ्रः व्यापादयति स्म।