OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 3, 2016

उत्तराखण्डे मेघस्फोटनं ; प्रलयः; २२ मरणानि।
पित्तोरगढ् - उत्तराखण्ड राज्ये मेघस्फोटनमिति पर्यावरणप्रतिभासानन्तरं दुरापन्ने महावृष्ट्यां भूछेदे च द्वाविंशति जनाः मृताः। पञ्चविंशति जनाः अप्रत्यक्षाः अभवन्।
 पित्तोरगड् चमोलि जनपदयोः गुरुवासरे अर्धरात्रौ आसीत् दुरन्तः। महत्या वृष्ट्या भूछेदे च बहूनि गृहाणि बहवः प्रदेशाश्च मृत्तिकान्तर्भूतानि।
  बहुत्र मार्गाः नाशिताः। अतः रक्षाप्रवर्तनानि न सुगमानि वर्तन्ते। केन्द्र- राज्यदुरन्तनिवारणसेनाः सैनिक - अर्धसैनिकविभागाश्च रक्षाप्रवर्तनं कुर्वन्ति।

 भारतराष्ट्रे एकीकृतपौरधर्मसंहितायाः सन्निवेशाय केन्द्रसर्वकारस्य श्रमः ।
नवदहली > भारतराष्ट्रे अचिरादेव एकीकृतपौरधर्मसंहितायाः सन्निवेशनं भविष्यति। एतदर्थं केन्द्रसर्वकारेण श्रमः आरब्धः। नियममन्त्रालयेन एतत्सम्बन्ध्य नियमसमितिं प्रति निर्देशः पृष्टः वर्तते। नियमनिर्माणाय उपदेशादिकं दीयमाना समितिरेव केन्द्रनियमसमितिः । एतदर्थं समित्या विभिन्नान् व्यक्तिनियमसङ्घान् प्रति चर्चां कर्तुं आलोच्यते। विरमितः न्यायाधिपः बल्बीर् सिंहः एव समितेः अध्यक्षः। समवायेनैव नियमपरिष्कारः आरभ्यते इति केन्द्रमन्त्रिणा सदानन्दगौडेन उक्तं वर्तते।भारतीयशिक्षानियमस्य चतुर्चत्वारिंशत् ४४-तमे भागे पौरधर्मसंहितामधिकृत्य प्रतिपादनं वर्तते इति मन्त्रिणा सूचितम्। एकीकृतधर्मसंहितायाः सन्निवेशनेन भारते व्यक्तीनां विवाह: , विवाहमोचनं, पैतृकसम्पद्, जीवनांशः इत्यादिषु बहुषु विषयेषु एकस्यैव नियमस्य आश्रयणमेव भविष्यति।

राष्ट्रे वर्गीयकलापाय ऐसिस् पद्धतिः इति सूचना ।  
  हैदराबाद् > गतदिने हैदराबाद् मध्ये आरक्षकैः बन्धितः ऐसिस् सङ्घः राष्ट्रे वर्गीयविद्वेषम्‌ उत्पाद्य आक्रमणं कर्तुं पद्धतिः पर्यालोचिता इति सूचनाः। जनवासकेन्द्रेषु विस्फोटनेन तथा आराधनाकेन्द्रेषु वर्गीयविद्वेषम् जन्यमानानि कुत्सितप्रवर्तनानि च सङघेन उद्दिष्टानि। तदर्थं भाग्यलक्ष्मीमन्दिरे गोमांसं निक्षिप्य हिन्दू-मुस्लीं विरोधमुत्पाद्य आक्रमणाय सङ्घस्य पद्धतिरासीदिति आरक्षकवृन्दं सूचयति। अत एव राष्ट्रे जाग्रतया वर्तितुं  सर्वेभ्यः निर्देशः दत्तः वर्तते।

भारतम् अफ्गानेन सहैव-राष्ट्रपतिः ।
नवदहली > आतङ्गवादिनः प्रति भारतं सर्वदा अफ्गान् राष्ट्रेण सहैव वर्तिष्यतीति राष्ट्रपतिः प्रणब् कुमार मुखर्जी। गतदिने काबूल् मध्ये सैनिकव्यूहं प्रति आतङ्गवादिनाम् आक्रमणेन बहवः सैनिकाः हताः। एतत्सम्बन्ध्य अफ्गान् राष्ट्रपतिं प्रेषिते अनुशोचनसन्देशे एव राष्ट्रपतिना एवं सूचितम्। आक्रमणम् अपलप्य बहवः विश्वनेतारः अफ्गान् राष्ट्रं समाश्वासितवन्तः ।


ओलिम्पिक्स् मध्ये क्रिकेट् अपि ?
रोम् > २०२४तमे वर्षे ओलिम्पिक्स् क्रीडाभ्यः रोम् वेदी भविष्यति चेत् क्रिकेट् कृते अपि अवसरः लप्स्यते इति सूचना। इट्टलीस्थक्रिकेट्समितेः अध्यक्षेण सिमोण् गाम्पिनो महोदयेनैव सूचना दत्ता । अन्तःराष्ट्रक्रिकेट्समितेः वार्षिकयोगः रोम् मध्ये प्रचाल्यमाने सन्दर्भे एव तेन एवमुक्तम्। एतत् साक्षात्‍कृतं चेत् १२४ वर्षेभ्य: परं क्रिकेट् विश्वकायिकमहोत्सवे भागं करिष्यति। एतद् भारतम् इव बहुभ्यः राष्ट्रेभ्यः ओलिम्पिक्स् सुवर्णपतकाय अवसरः एव भवति।

अर्बुदरोगिणां संख्या - दहली प्रथमस्थाने, केरलं    द्वितीये च।

    बङ्गलुरु > आघातदायकं याथार्थ्यं निवेद्य आरोग्यमन्त्रालयः। भारतीया आरोग्यानुसन्धानसमित्या एव पठनं कृतं वर्तते। पठनेषु अर्बुदरोगिणां संख्या दहल्याम् अत्यधिका वर्तते। २०१२ तः २०१६ पर्यन्तस्य कालस्य आरोग्यसम्बन्धानि अनुसन्धानि एव याथार्थ्यमिदं निवेदयति।  केरलेषु तिरुवनन्तपुरमेव अग्रे वर्तते। पट्टिकायां कोल्लं जिलायाः अपि स्थानमस्ति। जनानाम् उद्योगरीतिः, भक्षणक्रमः, जीवनशैली इत्यादीन्येव अर्बुदरोगाय मुख्यानि कारणानि भवन्तीति तिरुवनन्तपुरं रीजणल् कान्सर् सेन्टर् स्थापकनेता  डा.कृष्णन् नायर् महोदयः अवदत्।

विम्बिल्डण् मध्ये अप्रतीक्षितविजयः- मुगुरसे बहिर्गता।
 लण्डण् > विश्वटेन्नीस् मण्डले वनिताविभागे द्वितीयस्थानवाहिका फ्रञ्च् ओप्पण् जेता च गर्बिन् मुगुरसे विम्बिल्डण् तः बहिर्गता। स्लोवाक्यायाः जाना सेपलोवया एव मुगुरसायाः उपरि विजयः प्राप्तः। केवलं ५९ मिनिट्‌ अभ्यन्तरे समाप्तायां क्रीडायां सेपलोवा ६-३,६-२ इत्यनुपाते विजयं प्राप्तवती। वीनस् विल्यंस्, इगेनी बौचार्ड्, सिमोण् हालेप् इत्याद्याः वनिताः द्वितीयपादं प्रविष्टाः।

व्योमसेनायां 'तेजस्' अपि।
 बंगलुरु > ३३ वर्षाणां कठिनप्रयत्नेन भारतेन तद्देशीयतया निर्मितं फ्लयिङ् डग्गेर्स् ४५ इति नामकं विमानद्वयं व्योमसेनायै समर्पितम्।सर्वधर्मप्रार्थनायाः अनन्तरमेव समर्पणम् अभवत्। हिन्दु ,मुस्लिं,सिख्, क्रिस्तुधर्मपण्डितानां प्रार्थनानन्तरं व्योमसेनाध्यक्षस्य जस्बीर् वालियमहोदयस्य सान्निध्ये एव तेजसः समर्पणमभवत्।सर्वकारस्य हिन्दुस्थान् एयरोनोटिक्स् लिमिटड् एव विमाननिर्माता।