OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 20, 2016

वार्तामुक्तकानि
  • नवदिल्ली>नवदिल्ली - भाजपा नेता तथा भूतपूर्वः क्रिकेट क्रीडकः नवज्योतिसिङ् सिद्दुः राज्यसभासामाजिकत्वं त्यक्तवान्। भाजपा दलाङ्गत्वं च तेन उपेक्षितम्। आम् आद्मीदलप्रवेश एव लक्ष्यः इति सूच्यते।
  • बंगलुरू >मंगलुरु आरक्षकदलस्य डि वै एस् पि उद्योगस्थः गणपतिः इत्यस्य आत्महत्याघटनायाम् आरोप हलणविधेयः कर्णाटकराज्यविकसनमन्त्री को जे जोर्ज् स्थानत्यागं कृतवान्। गणपतेः मरणविषये   जोर्जं तथा उन्नतारक्षकोद्योगस्थान् च विरुद्ध्य व्यवहारः  करणीयः इति न्यायालयस्य आदेशः जातः  आसीत्।
  • नवदिल्ली>नदीषु मलिनीकरणनिवारणं राज्यसर्वकाराणां धर्मः इति केन्द्रसर्वकारस्य पर्यावरणमन्त्रिणा राज्यसभायामुक्तम्।
  • अङ्कारा>तुर्कीराष्ट्रे सैनिक उद्ध्वंसनाय सहयोगं कृतवतां नवसहस्रं आरक्षकान् एकं प्रविश्याराज्यपालं २९ उन्नताधिकारिणश्च राष्ट्रपतिः तय्यिप् उर्दुगानः स्थानभ्रष्टान् अकरोत्।


देशीयपताकाम् अनादृतवान् : विजेन्द्रं प्रति अन्यायः।

 नवदहली > देशीयपताकाम् अनादृतवान् इति आक्षेपेण मुष्टियुद्धक्रीडकं विजेन्दर् सिंहं प्रति अन्यायः स्वीकृतः । गतदिने नवदहल्यां त्यागराजवेदिकायां आस्ट्रेलियाया: क्रीडकेन केरि होप्पेन सह संवृत्ते मत्सरे सः देशीयपताकाम् अवमानितवान् इत्येव अन्यायः। मत्सरेऽस्मिन् देशीयपताकायाः सादृश्ययुक्तं वस्त्रं धृत्वा विजेन्दरेण क्रीडितम्, एतदेव देशीयपताकायाः अवमाननं भवतीत्येव अन्यायः । नवदहल्यां न्यूअशोकनगरे आरक्षकालये उल्लास् इति नामक: जनः आक्षेपं समर्पितवान्।

गयायाम् स्फोटनम् - १० सैनिकाः हताः।
  गया > बीहार राज्ये चकर्बन्दा वनप्रदेशे एकस्मिन् स्फोटने १० कोब्रा सैनिकाः हताः, अनेके व्रणिताः च। मावोयिस्ट् भीकराणां मण्डलमेवेतत् । अत्र निरीक्षणं कुर्वतः सि आर् पि एफ् सङ्‌घस्य उपर्यैव स्फोटनं सञ्जातम्। मरणसंख्या इतोऽपि अधिका भविष्यतीति सूचनाः सन्ति। मण्डलेऽस्मिन् जागरूकतया भाव्यमिति अधिकृतैः सूचना दत्ता। 'इम्प्रोवैस्ड् एक्स्प्लोसीव् डिवैस्' स्फोटनमेव भीकरै: कृतं वर्तते।


 यु.ए.ई मध्ये लघुवेतनस्वीकर्तृभ्यः सन्तोषवार्ता।
 यु.ए.ई >  यु.ए.ई मध्ये २००० दिर्हात् न्यूनं वेतनं स्वीकर्तृभ्यः जनेभ्यः निशुल्कवासव्यवस्थां दृढीकर्तुं नियमः सम्पन्न:। २०१६ वर्षान्ते नियमः प्राबल्यं प्राप्नोति इति यु.ए.ई -मानवविभवशेषिमन्त्रालयेन सूचितम्। लघुवेतनस्वीकर्तृणां जनानां जीवनव्यवस्थाः अधिकृत्य विदग्धसमित्या कृतं पठनमेव नियमस्यास्य आधारः।

दुर्घटं कालव्यतियानं ज्ञातुं रेल् यानेषु रडार् सज्जीकरणम् ।
नवदहली > रेल् यात्रिकाणां सौकर्याय परिष्करणैः साकं केन्द्ररेल्मन्त्रालयः।  यात्रिकाणां सुरक्षाक्रमीकरणानि आधारीकृत्य अनेकानि परिष्करणानि रेल् मन्त्रालयेन स्वीक्रियन्ते। इदानीं रेल्यानयन्त्रेषु 'रडार्'उपकरणं संस्थाप्य दुर्घटं कालभेदं प्रतिरोद्धुं रेल् मन्त्रालयस्य पर्यालोचना। रडार् उपकरण सहिताः इन्फ्रारेड् चलनचित्रग्राहिकाः संस्थापयितुमेव उद्दिश्यते। अस्य सज्जीकरणस्य मुख्यं लक्ष्यं दुर्घटकालभेदैः रेल्यानचालकानां संभाव्यमानानां दृश्यसमस्यानां परिहार: एव। 'त्रैनेत्र' इत्येव सज्जीकरणस्यास्य नाम दत्तं वर्तते।

 ए.टि.एम् मध्ये 'ऐरिस् पास्वेड्' इति नूतनसंविधानेन सह स्वकार्यवित्तकोशाः ।
          चेन्नै > ए.टि.एम् मध्ये  दृश्यफलकदर्शनेन धनं स्वीकर्तुं योग्या व्यवस्था स्वकार्यवित्तकोशैः क्रियते। इदानीं ए.टि.एम् मध्ये गूढसंख्यायाः टङ्कनात् परमेव धनं लभ्यते। किन्तु 'ऐरिस् पास्वेड्' इति नूतनसज्जीकरणेन दृश्यफलकदर्शनमात्रे एव धनस्वीकरणं साध्यते इति विदग्धैः सूचितम्। डि.सि.बि, आक्सिस्, कोटक् महीन्द्रा इत्यादिभिः स्वकार्यवित्तकोशैः एव नूतनं संविधानं परीक्ष्यते।

 काश्मीरसङ्घर्षः-पृष्ठतः पाकिस्तान् इति राजनाथसिंहः 
नवदहली > काश्मीरे इदानीं सञ्जायमानेभ्यः सङ्घर्षेभ्यः पाकिस्तानस्य सहयोगः अस्तीति केन्द्र आभ्यन्तरसचिवः राजनाथसिंहः अवदत्। हिस्बुल् मुजाहिदीन् भीकरस्य बुर्हान् वानेः वधात्परं काश्मीरे सङ्घर्षः अनुस्यूततया वर्तते। एते सङ्घर्षाः पाकिस्तानस्य सहयोगेनैव भवन्ति, अवसरः अयम् अन्यथाकर्तुमेव पाकिस्तानस्य श्रमः इति राजनाथसिंहेन प्रस्तावितम्।वधसहितैः पञ्चदशाधिकैः अन्यायैः आरोपितः एव बुर्हान् वानिः इत्येतत् मा विस्मरतु इत्यपि तेन स्मारितम्। काश्मीरे विद्यासम्पन्नान् युवकान् अपि आतङ्गवादप्रवर्तनाय प्रेरितवान् आसीत् हतः भीकरः इति सूचनाः आसन्।

कालिदासशाकुन्तलं कावालसोपाने पुनर्जातम्।
अनन्तपुरी - प्रणयतीव्रतां विरहवेदनां पुनःसमागमं च मेलयित्वा कालिदासस्य अभिज्ञानशाकुन्तलस्य रङ्गमण्डपे पुनर्जनिः। संस्कृतनाटकाचार्यस्य यशःशरीरस्य कावालं नारायणप्पणिक्कर् वर्यस्य "सोपानम्" इति नाटकाभ्यासपरिशीलनकेन्द्रेण एव इदं नाटकं  वेदिकामानीतम्!कावालवर्येण  निदेशनं  कृते  अस्मिन् नाटके  चलच्चित्रनटी मञ्जू वार्यरः शकुन्तलाम् अवतारितवती! मुख्यमन्त्री पिणराय् विजयः  नाटकावतरणस्य उद्घाटनं क़ृतवान् कावालं वर्यस्य देहवियोगात्परं पुत्रः  कावालं श्रीकुमारः पौत्री कल्याणी च नाटकस्य एकोपनं कृतवन्तौ! राजनैतिक सांस्कृतिक साहित्य कलामण्डलेषु प्रमुखाः नाटकमास्वदितुम् उपस्थिताः आसन्