OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 17, 2016

 रियो ओलिम्पिक्स् : पि.वि. सिन्धू ,श्रीकान्तः च क्वार्टर् मध्ये ।
    रियो डि जनीरो > रियो ओलिम्पिक्स् मध्ये भारतस्य पि.वि.सिन्धू ,श्रीकान्तः च क्वार्टर् फैनल् प्रविष्टौ। बाड्मिन्टण् पुरुषविभागे श्रीकान्तः डेन्मार्क् क्रीडकं यान्‌ यो योर्गेन्सं पराजितवान्। वनिताविभागे पि.वि. सिन्धू चैनायाः ताय् सुयीङिनं च पराजितवती।

 ९२ वर्षपरिमितं रेलयानमन्त्रालयस्य धनव्ययगणनपत्रिकावतरणं केन्द्रसर्वकारः परिसमापयति।
   नवदहली > आङ्गलशासनकालादारभ्य क्रियमाणं रेलयानसम्बन्धं धनव्ययगणनपत्रिकावतरणं केन्द्रसर्वकारः परिसमापयति। अस्य सम्प्रदायस्य ९२ वर्षाणां पुरातनत्वमस्ति। अधुना एकस्य आर्थिकवर्षस्य सामान्यधनव्ययगणनपत्रिकावतरणात्परं रेलयानसम्बन्धं धनव्ययगणनपत्रिकावतरणपि सर्वकारै: क्रियमाणं वर्तते। अग्रिमवर्षादारभ्य सम्प्रदायोऽयं न भविष्यतीति केन्द्रसर्वकारेण सूचना दत्ता। रेलयानमन्त्रालयस्य प्रवर्तनादिकं केन्द्रधनमन्त्रालयस्य परिधावेव आवश्यकम् इत्येव केन्द्रसर्वकारस्य निर्णयः ।अपि च सामान्यधनव्ययगणनपत्रिकासमर्पणानन्तरं क्रियमाणेन रेलयानधनव्ययगणनपत्रिका समर्पणेन जायमानस्य धनव्ययस्य नियन्त्रणमपि नूतनपरिष्कारेण उद्दिश्यते।

 प्रधानमन्त्रिणः प्रभाषणं निराशाजनकम् - उच्चतरन्यायालयस्य अध्यक्ष:।
  नवदहली > स्वातन्त्र्यदिनसन्देशतया चेङ्‌कोट्टायां प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं प्रभाषणं निराशाजनकमासीदिति उच्चतरन्यायालयस्य अध्यक्षः टि. एस् ठाकूर् महोदयः । प्रभाषणे बहव: विषया: मोदिना परामर्शिताः, किन्तु न्यायाधिपानां नियमनकार्यविषये किमपि न उक्तम्, एतत् निराशाजनकमेव - अध्यक्षेण सूचितम्। न्यायाधिपानां नियमनकार्येषु जायमानः विलम्बः राष्ट्रस्य नीतिन्यायव्यवस्थां प्रतिकूलतया बाधते इत्यपि महोदयेन स्मारितम्। अधुना उच्चन्यायालयेषु न्यायाधिपानां शून्यता अत्यधिका वर्तते इति पूर्वमेव सूचनाः आसन् ।

 नरेन्द्रमोदिनं कृतज्ञतां संसूच्य बलूच् नेतारः।
  नवदहली > पाकिस्थानस्य बलूच्प्रविश्यायां जायमानानां स्वयंभरणप्रक्षोभानां कृते साहाय्यं प्रख्यापितं नरेन्द्रमोदिनं कृतज्ञतां संसूच्य बलूच् नेतारः। ह्यः देहल्याम् स्वातन्त्र्यदिनप्रभाषणे बलूच् प्रक्षोभान् परामर्श्य प्रधानमन्त्रिणा नरेन्द्रमोदिना भाषितमासीत् । बलूचिस्थानप्रविश्यायां जायमानानां मनुष्याधिकारध्वंसनप्रवर्तनानमुपरि भारतस्य शब्दः सर्वदा वर्तते, तत्रत्यैः सङ्घै: क्रियमाणानां स्वतन्त्रताप्रवर्तनानां कृते भारतसर्वकारस्य माध्यमानां च सहयोगः अवश्यं वर्तते इति च प्रधानमन्त्रिणा सूचितम्। प्रधानमन्त्रिणः एतत्परामर्शं प्रति बलूच् रिप्पब्लिकन् दलेन कृतज्ञता अर्पिता च।