OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 2, 2016

सेल्फी दुरन्तः - देशीयक्रीडका वाप्यां निपतिता मृता च। 
भोप्पाल् > देशीयक्रीडका सेल्फीस्वीकरणसमये वाप्यां पतित्वा मृता। उत्तराखण्डस्वदेशिन्या: पूजा कुमार्याः एव दुरन्तः सञ्जातः। भोप्पाल् कायिकसमितेः कलालये एव अपघातः जातः। साय् संस्थायाः कर्मकराः रक्षाप्रवर्तनं कृतवन्तः , तथापि तां रक्षितुम् अशक्ताः अभवन्। सेल्फीभ्रमः एव अपघात्स्य कारणमिति कर्मकरै: सूचितम्‌।


 प्रवासिजनेभ्यः समाश्वासेन सह विमानसंस्थाः।
 मस्कट् > उत्सवकालेऽस्मिन् समये ओमान् तः प्रवर्तमानाभिः विमानसंस्थाभिः प्रवेशपत्रमूल्यं न्यूनीकृतम्। श्रावणोत्सव: , बक्रीद्, मुहरम् इत्यादयः उत्सवा: अग्रिममासेषु आघुष्यन्ते। एतदाधारीकृत्यैव विमानसंस्थानाम् अयं मत्सरः। केरलं प्रति तथा भारतस्य विविधानि राज्यानि प्रत्यपि प्रवेशपत्रमूल्यं न्यूनीकृतं वर्तते। ओमान् एयर् संस्थया इदानीं मूल्यं न्यूनीकृतमस्ति। अचिरादेव खत्‍तर् एयर्वेय्स् , फ्लै दुबाय् , जेट्‌ एयर्वेय्स् इत्यादिभिः अपि मूल्यस्य न्यूनीकरणं क्रियते इति प्रतीक्ष्यते।

इन्धनमूल्यं न्यूनीकृतम् । 
 नवदहली > राष्ट्रे इन्धनमूल्यं पुनरपि न्यूनीकृतम्। पेट्रोल् कृते १.४२ रूप्यकाणि डीसल् कृते २.०१ रूप्यकाणि च न्यूनीकृतं वर्तते। ह्यः अर्धरात्रितः नूतनानुपातः प्राबल्यमागतः। एकमासाभ्यन्तरे एतत् तृतीतय वारमेव इन्धनमूल्यं न्यूनीकृतं वर्तते। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य तथा डोलरेण सह विनिमयानुपाते भारतधनस्य (रूपायाः) च आगतं व्यतियानमेव मूल्यन्यूनीकरणाय मुख्यं कारणमिति भारतीयतैलवितरणसमितिः प्रस्तावनायाम् अवदत्।


कश्मीरसङ्घर्ष: - बालकानां उपयोग: अपि। 
श्रीनगर् > कश्मीरस्य शान्तेः अन्तरिक्षं कलुषं कर्तुं बालकानाम् उपयोगः अपि आक्रमणकारिभिः क्रियते इति मुख्यसचिवा मेहबूबा मुफ्ती। आक्रमणपरम्परया का समस्या नैव परिह्रियते , समग्रचर्चा एव आवश्यकी-तया सूचितम्। समस्याः स्रष्टुं लघुबालकाः अपि भीकरै: उपयुज्यन्ते, एतदर्थं विविधाः शक्तयः कठिनप्रयत्नं कुर्वन्ति इत्यपि तया योजितम्।


रियो ओलम्पिक्स् - नरसिंह एव स्पर्धिष्यते ।
उत्तेजक औषधविवादे बहिर्गन्तुं प्रेरितः नरसिंहः न्यायालयेन दोषविमुक्तो भूत्वावा प्रत्यागतः।


राष्ट्रविरोधकेभ्यः पाठनम् आवश्यकम् - परिकरः
पुणे > राष्ट्रराजधान्यां स्थित्वा कथमेवं जनाः राष्ट्रविरुद्धोक्तिं कर्तुम् साहसं धारयन्ति। येन केनापि समर्थनम् न क्रियते चेत् एवं न भविष्यति। अतः राष्ट्रविरोधकेभ्यः उचित दण्डनपाठः आवश्यकः इति राष्ट्रसंरक्षणमंत्रीवर्येण मनोहरपर्रिकरेन उक्तम्।
पर्रीकरवर्येण उक्तम् यत् राष्ट्रनागरिकैः राष्ट्रप्रेमस्य प्रथमं पाठं स्वस्य गृहात् एव पठनीयः। तदा येन केनापि राष्ट्रविरोधवाक्यं क्रियते तर्हि तैः सोढुं न शक्यते। अतः विचारयामि यत् जनाः स्वयंमेव राष्ट्रविरोधकेभ्यः पाठं पाठयिष्यन्ति।,” एवमपि  तेन उक्तम्।
संरक्षणविषयाभ्यासकेन नितीनगोखलेवर्येण लिखितम् ‘सियाचिन - धगधगते हिमकुंड‘ इति मराठी भाषायां विरचितं पुस्तकं तथा हिंदी भाषायां एतस्य पुस्तकस्य अनुवादस्य च  प्रकाशनवेलायां  पर्रीकरवर्यः स्वविचारान् प्रकटितवान्।
लेफ्टनंट जनरल संजयकुलकर्णीः (अवकाशप्राप्तः), एअर मार्शल भूषणगोखलेः (अवकाशप्राप्तः),'पुणे इंटरनॅशनल सेंटर' संस्थाउपाध्यक्षः डॉ. विजयकेळकरः अन्ये च गणमान्याः अवसरेsस्मिन् उपस्थिताः आसन् । पत्रकारः प्राध्यापकश्च विनयचाटी महोदयः एव  पुस्तकस्य अनुवादकः।