OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 21, 2016

अय्यम्पुष़ा हरिकुमाराय आगमानन्दपुरस्कारः।
कालटी>  आगमानन्दस्वामिस्मारकसमित्या संस्कृतभाषाप्रचारकाय दीयमानः आगमानन्दपुरस्कारः ‌अस्मिन् संवत्सरे सम्प्रतिवार्ताः इति अन्तर्जालपत्रिकायाः मुख्यसम्पादकाय अय्यम्पुष़ा हरिकुमाराय दीयते। दलितविभागक्षेमप्रवर्तकाय दीयमानाय  पुरस्काराय कूवप्पटि स्वदेशी के.सुतः अर्हति।
     संस्कृतपण्डितः अद्वैतवेदान्ताचार्यः सर्वोपरि सामाजिकपरिष्कर्ता स्वामी आगमानन्दः स्वजीवनं संस्कृतभाषायाः प्रचारणाय पोषणाय तथा अधःस्थितवर्गाणां समुद्धरणाय च समर्पितवान् आसीत्। तस्य स्मरणार्थं रूपवत्कृतया आगमानन्दस्मारकसमित्या प्रतिसंवत्सरं एकैकस्मै दलितक्षेमप्रवर्तकाय संस्कृतप्रचारकाय च पुरस्कारः दीयते।
   अस्य संवत्सरस्य पुरस्कारजेता अय्यम्पुष़ा हरिकुमारः एरणाकुलं तेवरा सेन्ट् मेरीस् यू.पि.एस् विद्यालये संस्कृताध्यापक अस्ति। आकाशवाण्याः ए-ग्रेड् कलाकाररूपेण विद्यमानः अयं  २५ संवत्सराणि यावत् संस्कृते कैरल्यां च  गानरचना नाटकनिदेशः इत्यादिषु विलसन्नयं केरल शैक्षिकविभागस्य संस्कृतप्रयुक्तिपुरुषेषु अन्यतमः अस्ति। एकस्मात् संवत्सरात् पूर्वम् आरब्धायां सम्प्रतिवार्तायां छात्राणां वार्तावतरणमपि आयोज्य संस्कृतानुरागिणां प्रशंसापात्रमभवच्च।
   आगस्त् मासस्य २२तमदिनाङ्के कालट्याम् आयोज्यमाने सम्मेलने पुरस्कारसमर्पणं भविष्यति। पुरस्कारप्रख्यापनवेलायां समित्याः अध्यक्षः के एस् आर् पणिक्करः, कार्यकर्ता के एन् चन्द्रप्रकाशः, प्रोफ. पि.वि.पीताम्बरः इत्यादयः सन्निहिताः आसन्।

 काश्मीर् संघर्षः- राष्ट्रियपरिहारः एव आवश्यकः।
   नवदहली > जम्मुकाश्मीरे जायमानानां संघर्षाणां परिहाराय राष्ट्रियचर्चा आवश्यकी इति काश्मीरस्य प्रतिपक्षदलम्। एतत् अभ्यर्थ्य काश्मीरस्य भूतपूर्वमुख्यसचिवस्य ओमर् अब्दुल्लस्य नेतृत्वे २० प्रतिपक्षनेतार: राष्ट्रपतिं प्रणब्मुखर्जीमहोदयम् अमिलन्। काश्मीरसंघर्षेषु राष्ट्रियस्वरूपमस्ति इति निर्णयाय केन्द्रसर्वकारः अशक्तः जातः इति प्रतिपक्षदलेन उक्तम्। विना विलम्बमेव राष्ट्रियचर्चायै केन्द्रसर्वकारः सन्नद्ध: भवतु इत्यपि प्रतिपक्षदलेन अभ्यर्थितम्।

रिसर्व् बाङ्क् कृते नूतनः अध्यक्षः।
  नवदहली > कालावधिं पूर्तीक्रियमाणस्य रघुरामराजस्य स्थाने रिसर्व्  बाड्क् कृते नूतनः अध्यक्षः। आर् बि ऐ उपाध्यक्षः डा. उर्जित् पटेलः एव नूतनः अध्यक्षः। ५२ वयस्कः सः वाणिज्यवित्तकोशविदग्धः भवति। अस्य नियमनाङ्गीकारः मन्त्रिसभायाः नियमनसमित्‍या कृतः वर्तते। सप्तंबर् ४ तः वर्षत्रयात्मकं कालम् उर्जित् पटेलः आर् बि ऐ अध्यक्षस्थानम् अलङ्करिष्यति। येल् विश्वविद्यालयतः आर्थिकशास्त्रे शोधकार्यबिरुदं सम्पादितः एषः महोदयः रघुरामराजस्य विश्वस्तः इत्येव व्यवह्रियते।

रियो ओलिम्पिक्स्- पादकन्दुकक्रीडा सुवर्णपतकं ब्रसील् कृते। 
              रियो डि जनीरो > मधुरप्रतिकारेण जर्मनीदलं पराजित्य ब्रसील् दलेन रियो ओलिम्पिक्स् मध्ये सुवर्णपतकं प्राप्तम्। अन्तिमक्रीडायां षूटौट् मध्ये ५-४ इत्यनुपाते ब्रसील् दलेन जर्मनीदलं पराजितम्।षूटौट् मध्ये ब्रसील् कृते अन्तिमावसरे नेय्मरेण लक्ष्यं प्राप्तम्। निश्चिते समये द्वाभ्यामपि दलाभ्याम् एकैकं लक्ष्यं प्राप्तमासीत्। गते विश्वचषकानुक्रमणे जर्मनीदलेन ब्रसील् दलं पराजितमासीत्। विजयेनानेन ब्रसील् दलं मधुरं प्रतिकारमपि अकरोत्।

रष्या भारतस्य विश्वस्तसुहृद् - प्रधानमन्त्री। 
नवदहली > रष्या सर्वदा भारतस्य विश्वस्तसुहृद् भवति इति प्रधानमन्त्री नरेन्द्रमोदी। रष्यया सह भारतस्य बान्धवः विश्वासपूर्णः एव, कालः अस्य बान्धवस्य साक्षी भवति - प्रधानमन्त्रिणा उक्तम्। रष्यायाः उपप्रधानमन्त्रिणे दिमित्री रोगोस् महोदयाय नवदहल्यां सज्जीकृते स्वीकरणसमारोहे एव प्रधानमन्त्रिणा एतत् अभिप्रेतम्। रष्यया सह उभयपक्षबान्धवं प्रबलीकर्तुं भारतं सर्वदा सन्नद्धमेव इति रष्यायाः राष्ट्रपतये अर्पिते सन्देशे प्रधानमन्त्रिणा सूचितम्।