OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 24, 2016

शब्दातिवेगप्रक्षेपास्त्रं युद्धविमाने संघट्य भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः।
 जोध्पूर् > शब्दातिवेगक्रूयिस्प्रक्षेपास्त्रं ब्रह्मोस्, व्योमसेनायाः 'सुखोय्' युद्धविमाने संघट्य परीक्षणं कर्तुं भारतम्। व्योमसेनया आगस्त् २४ तः २६ पर्यन्तं जयसालमीरस्य पोखराने  प्रक्षेपास्त्रपरीक्षणं क्रियते। रष्यया निर्मितं भवति 'सुखोय्' युद्धविमानम्। व्योमसेनायाः औद्योगिकं ब्रह्मोस् विक्षेपणं नवंबर् मासे वा डिसम्बर् मासे वा भविष्यति।  प्रतिरोधमण्डले भारतस्य नूतनप्राप्तिः अन्यानि राष्ट्राणि अद्‌भुतेनैव निरीक्षन्ते।

जय्षायाः आरोपणम् अन्वेष्टुम् अङ्गद्वयसमितिः।
  नवदहली > रियो ओलिम्पिक्स् मध्ये दीर्घदूरधावनस्पर्धायां भारतं प्रतिनिधीकृत्य स्पर्धितायाः ओ पी जय्षायाः आरोपणमन्वेष्टुं केन्द्रसर्वकारेण अङ्गद्वयसमितिः प्रख्यापिता। मत्सरवेलायां भारतस्य औद्योगिकप्रतिनिधीनां साहाय्यं वा सामीप्यं वा न लब्धमिति जय्षया आरोपितमासीत्। अपि च जलं लब्धुमपि महान् क्लेशः अनुभूतः इति जय्षया उक्तम्। एतदन्वेष्टुं कायिकसहकार्यदर्शी ओंकारकेडिया, कायिकनिदेशकः विवेक् नारायणः इति द्वयोः अङ्गयोः समितिः शब्दातिवेगक्षेपणायुधं युद्धविमाने संघट्य भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः:

विश्वस्य आर्थिकमण्डले भारतस्य स्थानं सप्तमम् ।
 नवदहली > विश्वस्य आर्थिकसम्पन्नराष्ट्राणां पट्टिकायां भारतस्य स्थानं सप्तमं भवति। पट्टिकायां प्रथम, द्वितीय स्थानयोः यथाक्रमम् अमेरिका ,चैना च भवतः। पट्टिकायां कानडा, ओस्ट्रेलिया , इट्टली इत्यादीनि प्रमुखानि राष्ट्राणि भारतस्य पृष्ठतः एव। 'न्यूवेल्‌ड् वेल्त्' संस्थायाः पठनानुसारं ५२०० बिल्यण् डोलर् भवति भारतीयानाम् आर्थिकसम्पत्ति:। किन्तु जनसंख्यायाः वर्धनमेव पट्‌टिकायां भारतस्य स्थानारोहणकारणं भवति, प्रतिशीर्षायस्य विषये सामान्यतया भारतीय: दरिद्रः एव इत्यपि पठनं सूचयति।


⦁ प्रधानमंत्री नरेंद्र मोदी समुदीरयत् यत् प्रशासनं निर्धनानां कल्याणाय  समर्पिताः अथ च तेषां हितकरी योजनानां प्रवर्ततनं एवमेव करिष्यति।

⦁ संयुक्तराष्ट्रेण दाउद इब्राहिमस्य पाकिस्ताने विद्यमानतायाः भारतस्य शंकायाः  पुष्टिः कृता।

⦁ केंद्रप्रशासनं  जम्मूकाश्मीरस्य एकलक्ष चत्वारिंशत् सहस्र  यूनां कृते  वृत्ते अवसराः प्रददाष्यति ।

⦁ वस्तुसेवाकर संविधानसंशोधनविधेयकस्य पुष्ट्यर्थं  मध्यप्रदेशविधानसभायाः  एकदिनात्मकं विशेषसत्रम् अद्य अनुष्ठीयते ।

उत्तरप्रदेशे बिहारे च जलौघकारणेन स्थितिः इतोsपि गभीरा संवृत्ता । गंगा-यमुनयोः तयोर्सहायकनदिनाञ्च जलस्तरं प्रवर्धतेतराम् ।

⦁ रियो ओलिम्पिकस्पर्धायां कांस्यपदकविजेत्र्याः साक्षी मलिकस्याः  दिल्ल्यागमने  भव्यं स्वागतम् |

⦁ प्रवर्तननिदेशालयेन  शारदा चिटफंडघोटाला इति प्रवञ्चना प्रकरणे  पूर्ववित्‍तमन्त्रिणः पी0 चिदम्‍बरमस्य पत्नी नलिनीचिदम्‍बरम अन्वीक्षाय  अध्यर्थिता ।

⦁ केन्‍द्रीय मंत्रिमंडलेन  सेरोगेसी इति मातृत्वसम्बन्धिविधेयकं पारितम् । अनेन सेरोगेट मदर इति मातृत्वाधिकारः सुनिश्चीयते ।

⦁ मध्‍यप्रदेशस्य विधानसभायां  वस्‍तुसेवाकरसांवैधानिक संशोधनविधेयकं पारितम्। गोवायां विधेयकमिदम् अनुमोदनाय  अगस्‍तमासस्य अन्तिमे दिने विशेषसत्रम्  भविष्यति |

⦁ मध्‍य इटली क्षेत्रे प्रबलभूकम्‍पेन न्यूनान्न्यूनं अष्टादश जनाः कालकवलिताः ।

⦁ रियो ओलंपिक स्पर्धायां कांस्‍यपदकविजेत्र्याः  साक्षी मलिकस्य हरियाणा प्रत्यागमने भव्यं  स्‍वागतं विहितम् । बेटी बचाओ, बेटी पढ़ाओ अभियानस्य प्रचारप्रमुखपदे प्रचिता ।