OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 18, 2016

 लखनऊ विश्वविद्यालये संस्कृतविभागे संस्कृतसप्ताह: आयोजित:।
संस्कृत सप्ताहमवलम्ब्य संस्कृतभारती अवधप्रान्तः तथा लखनऊ विश्वविद्यालयस्य संयुक्ततत्वावधाने विश्वविद्यालयस्य संस्कृतविभागे संस्कृतसप्ताह: सहर्षेणायोजित: | आयोजने वाद-विवाद प्रतियोगिताया: आयोजनं सम्पन्नम् | प्रतियोगितायां असंख्याका: विद्यार्थिन: भागं गृहीतवन्त: | तेभ्यः पुरस्कारः प्रमाणपत्रञ्च प्रदत्तः । ‘संस्कृत शिक्षाया:प्रासंगिकतेति’ विषयमनुसृत्य छात्रै: पक्षविपक्षयो: स्वविचारा: प्रस्तुता: | तत हि  पूर्वविभागाध्यक्षाणां प्रो. बृजेश कुमार शुक्ल महोदयानाम् आशीर्वचांसि छात्राणां कृते लाभप्रद: संजातानि | वर्तमानै: विभागाध्यक्षै: प्रो. रामसुमेर यादवै: संस्कृतसम्भाषणाय प्रेरणा प्रदत्ता | प्रतियोगिताया: निर्णायकरूपेण विभागीया: डॉ. प्रयागनारायण मिश्र महाभागा:, भारतीय विद्याभवनस्य प्राध्यापिका: डॉ. अनुभा वाजपेयी महाभागा: आस्ताम् | कार्यक्रमस्य संचालनं डॉ. अशोक कुमार शतपथी महोदयेन विहितम् | उ.प्र. संस्कृत संस्थानस्य प्रशासनिकाधिकारिभिः डॉ. जगदानन्द झा महाभागै:स्वागतसम्बोधनं एवञ्च शोधाध्येतृभि: डॉ. कुलदीपक शुक्लैः,अनिल कुमार महाभागै:, अरुण कुमार निषाद महाभागै:, रोशन सिंह महाभागै:व्यवस्था सम्पादिता | कार्यक्रमे ऽस्मिन् डॉ. अभिमन्यु सिंह, डॉ. पत्रिका जैन, डॉ.श्यामलेश, डॉ. नेहा खरे, डॉ. सन्तप्रकाशादय: विभागै: छात्रै: साकमेवोपस्थिता: आसन् |

 चित्रकला तथा मेधिनी कला प्रतियोगिता आयोजिता।
 संस्कृतभारती अवधप्रान्तः द्वारा 17 अगस्त 2006 तमे दिनांके आर. एस. एस. एकेडमी, कृष्णा नगर, लखनऊ विद्यालये चित्रकला तथा मेधिनी कला प्रतियोगिता आयोजिता।  प्रतियोगितायां प्रायः 70 छात्राः भागं गृहीतवत्यः । करतलोपरि मेधिनीकला निर्मीय तत्र वदतु संस्कृतम् जैसे वाक्यं लेखनीयमासीत् । चित्रकलायाः पूर्णं विवरणं प्रतिभागिन्यैः लेखनीयमासीत् । रक्षाबंधात् प्राक् निर्मितैषा कला भ्रातृन् वदतु संस्कृतम् इति संदेशं दास्यति। अस्याः परिकल्पना डॉ. सरिता श्रीवास्तव जगदानन्द झा मिलित्वा कृतवन्तौ ।

 संस्कृतसप्ताहस्य शुभारम्भावसरे ११मासात्मकस्य अनौपचारिकसंस्कृतकेन्द्रस्य उद्घाटनं सम्पन्नम्।
कानपुरम्> १६अगस्तम्। संस्कृतसप्ताहस्य प्रथमदिवसे  कानपुरस्थे विक्रमाजीत-सिंहसनातनधर्म- महाविद्यालये संस्कृतसप्ताहस्य शुभारम्भावसरे ११मासात्मकस्य अनौपचारिकसंस्कृतकेन्द्रस्य उद्घाटनं सम्पन्नम्। उल्लेखनीयं यत् संस्कृतस्य प्रचार-प्रसाराय राष्ट्रियसंस्कृत संस्थानस्य योजनान्तर्गतं चिते केन्द्रेऽस्मिन् संस्थानद्वारा शिक्षकरूपेण सवृत्तिनियुक्ति: क्रियते।           कार्यक्रमे अध्यक्षतां निर्वहन् डॉ. शिवबालकद्विवेद: जीवने संस्कृताध्ययनस्य आवश्यकतां सविस्तरं प्रतिपादितवान्। मुख्यातिथि: मातृस्थानम् इति कानपुरस्य प्रतिनिधि-मासिक-पत्रिकाया: सम्पादक: अनूपशुक्लमहोदय: कानपुरे संस्कृतस्य गौरवशालीतिहासस्य सन्दर्भोल्लैखै: अवागमयत्। महाविद्यालयस्य उपप्राचार्या डॉ. सुप्रिया शुक्ला स्वस्य सम्बोधने उक्तवती यत्संस्कृतं विना अस्माकं परिचय: एव न दातुं शक्यते।                   कार्यक्रमे विभागीयशिक्षका: छात्रा: गणमान्या: अतिथय: उपस्थिता: आसन्। उद्घाटनसमारोहस्य अन्तिमचरणे संस्थानेन नियुक्ता केन्द्रशिक्षिका श्रीमती रेनूसिंह विधिवद् अध्यापनम् आरब्धवती।

 उत्तर प्रदेश संस्कृत संस्थाने 25 दिवसीय कर्मकाण्डप्रशिक्षण- शिविरस्य उद्घाटनं सम्पन्नम् ।
 लखनऊ 17 अगस्त। संस्कृतदिवसस्य पूर्वदिने उत्तर प्रदेश संस्कृत संस्थाने 25 दिवसीय कर्मकाण्डप्रशिक्षण- शिविरस्य उद्घाटनं सम्पन्नम् ।उद्घाटने मुख्यातिथिः डॉ. महानन्द झा, विशिष्टातिथिः प्रो. आजाद मिश्रः आसन् । डाॅ. झा विधिहीनमसृष्टन्नमिति गीतायाः उद्धरणं प्रस्तुवन् उक्तवान् यत् अदक्षिणमिति पदे अल्पार्थवाची नञ् समासः अस्ति । कर्मकांडप्रशिक्षकेण डॉ. अंजनी मिश्रेण विषयोपस्थापनं विहितम्। अस्मिन्नवसरे 30 प्रशिक्षणार्थिनः स्वकीयं नामांकनं कृत्वा समुपस्थिताः आसन् । कार्यक्रमस्य संचालनं धन्यवादज्ञापनञ्च जगदानन्द झा वर्यैः कृतम् ।

 संस्कृत-दिवसमालक्ष्य "आकाशवाण्या: संस्कृत-सौरभार्थं ध्वन्यंकितं कवि-सम्मेलनं
संस्कृत-दिवसमालक्ष्य "आकाशवाण्या: संस्कृत-सौरभार्थं ध्वन्यंकितं कवि-सम्मेलनं २०-दिनांके मासेsस्मिन् रात्रौ सार्ध-नववादने ६६६-किलोहार्ट्ज्-इति राजधानी-वाहिकया प्रसारयिष्यते।