OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 10, 2016

 रेलयाने बृहत् मोषणम् : कोटीनां नष्टः जातः।
  चेन्नै > सेलम् - चेन्नै रेलयाने बृहत् मोषणं सञ्जातम्। सेलं तः चेन्नै रिसर्व्बाङ्क् कार्यालयं प्रति आनीतं धनमेव तस्करैः अपहृतम्। पुरातना: तथा नाशोन्मुखा: च २३ आचितः (टण्) चीका: रेलयाने स्थापिता: आसन्। ३४२  कोटि मूल्यपरिमितं धनं २२८ पेटिकासु स्थापितमासीत्। रेल्यानस्य उपरिभागस्य वेधनं कृत्वैव धनापहरणं कृतं वर्तते।

ए टि एम् द्वारा धननष्टम् अनुभूतेभ्यः धनं प्रत्यर्पयिष्यति - एस् बि टि ।
 तिरुवनन्तपुरम् > ए टि एम् द्वारा तस्करैः अपहृतं धनं प्रत्यर्पयिष्यतीति एस् बि टि अधिकृतैः सूचितम्। धननष्टम् अनुभूतानां संख्यानानि जडीकृतानि वर्तन्ते। तेभ्यः नूतनं ए टि एम् पत्रं दीयते। तिरुवनन्तपुरं नगरे आल्तरा,कवटियार्, वट्टियूर्काव् इत्यादिभ्यः स्थलेभ्यः एस् बि ऐ , एस् बि टि ए टि एम् तः एव धनापहरणं सञ्जातम्। अपि च ए टि एम् प्रकोष्ठानां सुरक्षाव्यवहारः शक्तं करिष्यति इति अधिकृतैः सूचितम्।

 आर् बि ऐ धनानुपाते परिवर्तनं नास्ति।  
मुम्बई > वृद्ध्यनुपाते विना परिवर्तनं नूतनः नयः रिसर्व्बाङ्क् अधिकृतैः प्रख्यापितः ।अध्यक्षेण रघुरामराजेनैव प्रख्यापनं कृतम्। रिप्पो अनुपातः ६.५% रिसर्व्बाङ्‌क् मध्ये पाल्यमानस्य संरभकधनस्य अनुपातः ४% च भवतः। अग्रिमे आर्थिकवर्षे आभ्यन्तरोन्नतिः ७.६% मध्ये पालनं भवति मुख्यं लक्ष्यम्। राष्ट्रस्य आर्थिकस्थिति: भद्रा एव , धनवर्धनानुपातस्य नियन्त्रणमेव मुख्यं कार्यम् इत्यपि अध्यक्षेण रघुरामराजेन उक्तम्। अध्यक्षस्थानस्य कालावधिः आगस्त्मासे तेन पूर्तीक्रियते। अध्यक्षस्थानमलङ्कृत्य रघुराम राजपक्षतः इदं नयप्रख्यापनम् अन्तिमं भवेत्।

 दक्षिणचैनासमुद्रे चैनायाः सैनिकविन्यासः- चित्राणि प्रत्यक्षीकृतानि।
 वाषिङ्टण् > दक्षिणचैनासमुद्रे चैनया सैनिकविन्यासः क्रियते इति 'दि न्यूयोर्क् टैं' पत्रेण रेखीकृतम्। एतत् दृढीकुर्वन्तानि उपग्रहचित्राणि तैः प्रत्यक्षीकृतानि। द्वीपस्य फियरि क्रोस्,सुबि,मिस्चीफ् रीफ्स् इत्यादिषु मण्डलेषु एयर्क्राफ्ट् हाङ्गर् उपकरणानि चैनया निमीयन्ते इति उपग्रहचित्राणि सूचयन्ति।