OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 27, 2016

फिदल् कास्त्रो दिवंगतः। 
क्यूबाराष्ट्रं पञ्चदशाब्दं यावत् ऐतिहासिकरीत्या शासनं कृतवान् फिदल् कास्त्रो इति नाम्ना प्रख्यातः फिदल् अलहान्द्रो कास्त्रो रूस् यशःशरीरः सञ्जातः। अमेरिक्कादीनि साम्राज्यत्व राष्ट्राणि जनकीयसेनान्दोलनेन प्रतिरुध्य राष्ट्रपति- प्रधानमन्त्रिरूपेण क्यूबाराष्ट्रं नीतवान् विप्लवनायकः आसीत् फिदल् कास्त्रो वर्यः। क्यूबाराजधान्यां हवानायां शुक्रवासरे रात्रौ आसीत् अन्त्यमिति तस्य सोदरेण तथा च क्यूबाराष्ट्रपतिना रौल् कास्ट्रोवर्येण विज्ञापितम्। फिदलस्य अन्त्याभिलाषमनुसृत्य मृतदेहः शनिवासरे एव दग्धः। क्यूबायां नवदिवसीयं दुःखाचरणम् प्रख्यापितम्।

जनरलबाजवा पाकिस्तानस्य  नूतनसैन्यप्रमुख:
 पाकिस्ताने भाविसैन्यप्रमुखः कः भविष्यति इति विषयात्मकोहापोहः समाप्तिंगतः,पाकिस्तानस्य सैन्यप्रमुखस्य राहिलशरीफ़स्य सेवानिवृत्तेरनन्तरं लेफ्टिनेंट-जनरल-क़मर-जावेद-बाजवा भाविसैन्यप्रमुखत्वेन प्रचितः। बलूचरेजीमेंट इति सैन्यदलात् सम्पृक्तः जनरल-बाजवा पाकिस्तानस्य षोडशः सेनाप्रमुखः भविष्यति। असौ सोमवासरे सैन्यप्रमुखपदभारं स्वीकरिष्यति।

प्राचीनशिलाचित्राणि मध्यप्रदेशतः लब्धानि।
भोपाल्> विश्वस्य प्राचीनतमानि  शिलाचित्राणि मध्यप्रदेशराज्यतः लब्धानि। चित्राणां पञ्चलक्षं संवत्सराणां प्राचीनत्वम् अस्ति। माण्डस्वर् जनपदस्य भान् पुरे एव शिलासु लिखितानि चित्राणि दृश्यन्ते । दराकी चट्टन् गुहायाः त्रिंशदधिकपञ्चाशत्-संख्यामितानि चित्राणि संवीक्ष्य एव पुरातन-शिला-चित्राणि अभिज्ञातानि इति रोक् आर्ट् सोसईटी इति सुज्ञातायाः संस्थायाः कुलसचिवः गिरिराज-कुमारः अवदत्। द्वयाधिक द्विसहस्रतमात् संवत्सरात् आरभ्य अम्मिन् मण्डले अनुसन्धानः प्रचलन्नस्ति। ओस्त्रेलियायाः अनुसन्धान वैज्ञानिकेन रोबर्ट् जी बेड्नारिकेन एव एतानि चित्राणि प्राचीनात् प्राचीनतराणि इति प्रमाणीकृतानि।