OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 23, 2016

संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च दीर्घ-धावनम्।
नवदेहली>संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च गतदिने (२०-नवम्बर’२०१६, रविवासरे) नवदिल्ल्यां जवाहरलाल-नेहरु-क्रीडाङ्गणतः दीर्घ-धावनम् आयोजितम्। अस्मिन् अनन्यतमायाः   "नेक्टरलेण्ड्"( NectarLand) इति संस्कृतस्य स्वयं-सेविसंस्थायाः अनेकैः सदस्यैः सोत्साहं सहभागित्वं निर्व्यूढम् नवम्बर-मासे प्रतिवर्षम् आयोज्यमाने अस्मिन् दीर्घधावने "नेक्टरलेण्ड्" इत्यस्याः इदं तृतीयं सहभागित्वं वर्तते 
एषा संस्था अभिकल्पनाभिः विविध-वर्णैः चित्रैश्च प्रकाशितैः हिन्दी-आङ्ग्ल-अनुवाद-लिप्यन्तरणयुतैः लघु-लघु-पुस्तकैः जनेषु, विशेषेण च युवजनेषु संस्कृतानुरागिषु च संस्कृत-भाषां संस्कृत-साहित्यञ्च प्रति पठन-संभाषण-रुचिं समुत्पाद्य “भाषैषा कठिना” इति भ्रान्तिम् अपनोदयति   
अनया संस्थया विगते वर्षे भारतीय-संस्कृत-पत्रकार-संघेन आयोजितायां पञ्चम्यां संस्कृत-पत्रकार-संगोष्ठ्यां सहभागित्वम् आदाय संस्कृत-शिक्षणस्य कृते समाजे विहितानि संस्कृत-विषयकाणि विविध-कार्याणि प्रदर्शितानि आसन् अस्याः संस्थायाः वैशिष्ट्यमस्ति यत् प्रायेण युवानः वैज्ञानिकाः, अभिकल्पकाः( designers), प्रविधिज्ञाः(technicians), अभियन्तारः, चित्रमुद्रण-विशेषज्ञाः(graphic-experts) च सदस्यत्वेन संस्कृत-कार्याणि परिनिष्ठित-भावेन समाचरन्ति