OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 21, 2016

करुणस्य वीरत्वेन भारतं विजयपीठे।
चेन्नै> करुण् नायर् नामकस्य केरलीयक्रिक्कट् क्रीडकस्य लगुडेन लब्धानां त्र्यधिकत्रिशतं [३०३] धावनाङ्कानाम् अधीशत्वे इङ्लण्ट् सङ्घस्योपरि भारतस्य एक इन्निङ्स् तथा पञ्चसप्तति धावनाङ्कानां च समुज्वलविजयः।विरसा भवेदिति विचिन्तिता स्पर्धा एव करुणस्य अनितरसाधारणवैभवेन भारतानुकूला परिवर्तिता।अनेन विजयेन ४-० इत्यङ्कविन्यासे भारतं इङ्लन्टराष्ट्रं विरुध्य निकषस्पर्धापरम्परामपि स्वायत्तमकरोत्।
    प्रथम इन्निङ्स् क्रीडायाम् अतिथिराष्ट्रेण ४७७ धावनाङ्कानि, भारतेन ७कन्दुकताडकविनष्टे ७५९ धावनाङ्कानि च प्राप्तानि। द्वितीयेन्निङ्स्मध्ये इङ्लण्टदलं २०७ धावनाङ्कैः सर्वे ताडकाः बहिर्गताः। रवीन्द्र जडेजा नामकः चक्रगेन्दकः तस्य ऐन्द्रजालिकप्रकटनेन सप्त कन्दुकताडकान् बहिर्गमयितवान्। अतः आङ्गलेयानां समस्थितिप्रतीक्षा अपि अस्तंगता। चतस्रः स्पर्धाः अपि भारतेन स्वायत्तीकृताः।

जगन्नाथवर्मा दिवंगतः।
अनन्तपुरी> प्रशस्तः कैरलीचलच्चित्र-दूरदर्शनपरम्परानटः जगन्नाथवर्मा निर्यातः। सप्तसप्ततिवयस्कः आसीत्।
    केरलस्य आरक्षकविभागे उच्चस्थानमलंकृतवान् सः पञ्चशताधिकेषु चलनचित्रेषु स्वीयकलावैभवं प्रदर्शितवान्। शङ्कराभरणम् इति उत्कृष्टतेलुगुचलच्चित्रस्य कैरलीपाठान्तरे सोमयाजलुवर्येण अवतारितस्य शङ्करशास्त्रिणः शब्दः जगन्नाथवर्मणा कृतः आसीत्। कथाकेलिः चेण्टवाद्यम् इत्यादिषु कलारूपेषु अपि निपुणः आसीत्।