OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 25, 2017

कार्षिक-ऋणानां ६६० कोटि रूप्यकाणां समाश्वासः।
  प्रत्‍यर्पितानाम् ऋणमूल्येषु समाश्वासः वित्तलेखेषु पूर्यते।

नवदेहली > मुद्रापत्र निर्मूल्यीकरणेन ऋणं प्रत्यर्पितुं क्लेशितानां कृषकाणाम् आश्वासं विज्ञाप्य केन्द्रसर्वकारः। सहकरण वित्तकोशात् गृहीतेषु ऋणेषु नवंबर् दिसंबर् मासयोः ऋणमूल्यं सर्वकारेण दातुं  निश्चितम्। हृस्वकालीन धान्यकर्षकाणामेव आश्वासः लभ्यते। प्रधानमन्त्रिणः नरेन्द्र मोदिनः आध्यक्ष्ये सम्पन्ने उन्नतल-उपवेशने आसीत् अयं निर्णयः जातः। प्रत्‍यर्पितानाम् ऋणमूल्येषु समाश्वासः सर्वकारेण कृषकाणां वित्तलेखेषु पूर्यते। ६६०.५० कोटि रूप्यकाणि एतदर्थं सर्वकारेण निक्षिप्तानि। एतत् विहाय ४०० कोटि रूप्यकाणि नबार्डाय दास्यति। योजनेयं पूर्वमेव विज्ञापिता इत्यनेन निर्वाचननियमानां परिधौ न अन्तर्भवति इति अभिज्ञाः अभिप्रयन्ति।

अबुदाबी उत्तराधिकारिणे स्वीकरणम्।
नवदिल्ली> अबुदाबिराष्ट्रस्य उत्तराधिकारी तथाच यू ए ई सायुधसेनायाः उपसर्वसैन्याधिपः षैख् मुहम्मद् बिन् साइद् अल् नह्यानः भारतं प्राप्तः। राष्ट्रस्य गणतन्त्रदिनाघोषे विशिष्टातिथिरूपेण सम्प्राप्तं तं प्रधानमन्त्री नरेन्द्रमोदी दिल्ली विमाननिलयं प्रति साक्षादागत्य स्वीकृतवान्। भारत-यू ए ई सौहृदे नूतनतलम् आविष्कर्तुं सहायकः भवति अयं पदक्षेपः।