OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 13, 2017

इन्टर् सेप्टर् बाणः- परीक्षणे विजयः।
बालसोर्(ओडीषा)> द्वितल बालिस्टिक् मिसैल् प्रतिरोध संविधानस्य विकासदशायां सुप्रधान केन्द्रशिला रूपेण भारतस्य युद्धबाणस्य परीक्षणविजयः। ओडीषातीरस्प समीपे विद्यमाने अब्दुल्कलां द्वीपतः ह्यः प्रातः ७.४५ वादने  आसीत् बाणस्य प्रयोगः तीरं प्रति समागतं प्रतीकात्मकं शत्रुबाणं भौमान्तरीक्षात् बहिः एव भञ्ज्य  परीक्षणे विजयं अवाप।  भारतस्य पृथ्वी नाम बाणवेधायुध दौत्यस्य भागः आसीत् परीक्षणम्।  २००० कि.मी दूरतः शत्रु राज्य स्य इति कल्पयित्वा वङ्ग समुद्रस्थ महानौकातः बाणस्य प्रयोगः कृतः। स्वयं नियन्त्रित प्रतिध्वनिग्राहि(RADAR)द्वारा शत्रुबाणं संवीक्ष्य सञ्चार-पथमधिकृत्य सज्ञा स्वीकृत्य शत्रु बाणे लक्ष्यं निधाय बाणः प्रेषितः आसीत्।

सीमा सैनिकेभ्यः व्याजपत्ररुप्यकाणां प्रत्यभिज्ञानाय परिशीलनम्।
कोल्क्कत्त >२००० मूल्यकानां पत्ररुप्यकाणां व्याजपत्राणि प्रत्यभिज्ञानाय सीमारक्षा-भटानां प्रतिज्ञानं दातुं आलोच्यते।
एतदर्थं केन्द्र वित्तकोशधिकारिणा साकम् उपवेशनम् आरब्धम्।
भारत बङ्गलादेशयोः सीमाद्वारा एवा व्याजपत्ररुप्यकाणि आगच्छन्ति इति ज्ञायन्ते। अर्धसैनिकेभ्यः बौद्धिक दलेभ्यः च द्विसहस्रकमूल्यस्य रूप्यकाणि  निन्द्राभङ्गं प्रदास्यन्ति। सुरक्षा संविधानयुक्तंभवति नूतनं रुप्यकपत्रम्। सप्तदशविध विशेषताः सन्ति अस्मिन्। किन्तु अस्याः अर्धांशः अपि सम्पूर्या अगताः भवन्ति नूतनानि पत्ररुप्यकाणि। अतः सत्यं तत्यं च प्रत्यभिज्ञातुं क्लेशः भवति । गतसप्ताहे २००० पत्ररुप्यकाणां ४० व्याजरुप्यकाणि बंगलादेशस्य मुर्षिदाबाद् जनपदात् एकस्य युवकस्य पार्श्वतः गृहीतानि सन्ति।

 काश्मीरे संघट्टनं - चत्वारः भीकराः हताः, द्वयोः सैनिकयोः वीरमृत्युः।
श्रीनगरम्> जम्मु काश्मीरस्य कुल्हाम् जनपदे भीकरैः सह रविवासरे उषसि संवृत्ते संघट्टने चत्वारः हिस्बुल् मुजाहिदीन् भीकराः मृताः। द्वौ सैनिकौ वीरमृत्युं प्राप्तवन्तौ। द्वौ प्रदेशवासिनौ च मृतौ।
     कुल्हाम् जनपदे नगबाल् ग्रामे कस्मिंश्चित् भवने भीकराः निलीयमानाः वर्तन्ते इति सूचनानुसारं सैन्य-अर्धसैन्य-रक्षिपुरुषविभागानां संयुक्तान्वेषणस्य अन्ते भुषुण्डिप्रयोगः कृतः।

 दृष्टिबाधितजनानां २०-२०
विश्वक्रिकेट्चषकक्रिडायां भारतेन जय: प्राप्त:
दृष्टिबाधितजनानां विंशति-प्रतिविंशति क्षेपचक्रीय विश्वक्रिकेटचषकस्पर्धायां भारतीय क्रीडकदलेन पाक्किस्थानं विरुद्ध्य द्वितीयवारं विजयोSधिगत:। पाक्किस्थानस्य नवक्रीडकाणां हानिपुरस्सरं सप्तनवत्युत्तरैकशतं धावनांकानां लक्ष्यमनुसरता भारतेन नवक्रीडकाणां सुरक्षापूर्वकं स्पर्धेयं विजिता। भारतस्य प्रकाशजयरमैया इत्यनेन  ९९ धावनांकाः समार्जिताः।