OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 5, 2017

पञ्चाब् - ७२ , गोवा ७३  मतदानं सम्पन्नम्।
कोच्ची >पञ्चाब् गोवा राज्ययोः विधानसभानिर्वाचनार्थं मतदानं सम्पूर्णम्। पञ्चाबराज्ये प्रतिशतं द्विसप्तति जनैः सम्मतिदानं विनियुक्तम्। एतत् गतनिर्वाचनात् न्यूनं भवति। २०१२ तमे ७८.५७ आसीत् मतदानमानम्।
    गोवायां तु मतदानमानं वर्धितम्। गतनिर्वाचने प्रतिशतं ८१.७ इत्येतत् अस्मिन् समये प्रतिशतं त्र्यशीति इति वर्धितमभवत्।  मतगणना मार्च् एकादशदिनाङ्के भविष्यति।

ऑण् लैन् धनविनिमयाय सेवाशुल्कः न भविष्यति।
नव दिल्ली > वित्तकोशद्वारा क्रियमाणः ऑण् लैन् धनविनिमयः सेवनशुल्कं विना कर्तुं केन्द्र-वित्तमन्त्रालयेन प्रक्रिया आरब्धा। मुद्रपत्र रहित सम्पद्व्यवस्था इति लक्ष्यप्रप्तेः बाधा रूपेण वर्तते सेवाशुल्कः। तस्य निरासाय वित्तमन्त्रालयस्य उन्नताधिकारिणः वित्तकोशाधिकारिणा साकं चर्चा आरब्धाधा। सर्वकारसेवासु अपि ऑण्लैन् द्वारा वित्तविनिमयाय शुल्कनिरासं कर्तुं प्रक्रिया विना विलम्बं भविष्यति। राजनैतिकदलेभ्यः धनस्वीकरणाय कृतायां 'इलक्ट्रल् बोण्ड्' व्यवस्थायां कालपरिधि  योजयितुमपि सर्वकारेण चिन्त्यते।

आपघाते पतितः युवकः प्राणान् याचितवान्।
जनाः सेल्फि गृहीतवन्तः
बेङ्गलूरु > आधुनिकानां जनानां निर्दयत्वं प्रमाणीकृत्य पुनरपि दुःखवार्ता। अपघाते पतितः अष्टादशवर्षीयः युवकः स्वप्राणरक्षणाय अयाचत। केचन विगण्य गताः, केचन सेल्फीग्रणं कृतवन्तः, केचन चलनचित्रग्रहणरताः च आसन्। अन्ते रुधिरस्रावेन परिक्षीणितस्य युवकस्य सहायार्थं मृत्यु: आगतः।
कर्णाटक राज्यस्य हूबल्ली समीपे कोप्पालि देशे एव दुरन्तः जातः। अन्वर् अलि नामकः अष्टादशवयस्काय युवकाय एव सहजीविनां मनुष्याणां कारुण्यहीनतया जीवः नष्टः। भूपत्र (Tiles)विक्रयणशालायां कर्मकरः आसीनः एषः प्रातः अष्टवादने द्विचक्रिकया आपणं प्रति गच्छन्नासीत् । तदा कर्णाटक सर्वकारीय-लोकयानम् तस्योपरि घट्टितम्। तस्य ऊरुः भग्नः । समीपे आतुरालयः आसीत् तथापि कोऽपि तं रक्षितुं नोद्युक्ताः अन्ते आगतः श्रीधरः नाम स्नातकबिरुदविद्यार्थी ओट्टो रिक्षाचालकानां सहायं प्रार्थयत। किन्तु चालकैः निर्दयं याचना निरस्ताः, अन्ते तं आम्बुलन्स् आहूय आतुरालयं प्रेषितवान् । श्रीधरस्य आगमनसमये बहवः जनाः युवकं परितः स्थित्वा छायाग्रहणं कुर्वन्तः सन्ति इति सः अवदत्। मध्याह्ने द्विवादने युवकः मृतः ।

संस्कृताध्यापकानां संस्कृतप्रणयिनाञ्च सहकारिता आवश्यकी- 'संस्कृतध्वनिः'
कोष़िक्कोट् >संस्कृतिः संस्कृतेन, संस्कृतं मम जीवितायनम् इति सन्देशद्घुष्य प्रवर्तमानस्य केरल-संस्कृताध्यापक फेडरेषन् संघस्य मुखपत्रिका संस्कृतध्वनिः प्रकाशिता। शिक्षा क्षेत्रे विद्यमानानां द्विसहस्राधिकानाम् अध्यापकानां षष्टा पत्रिका भवत्येषा। सङ्घस्य ३९तम राज्यस्तरीय वार्षिकमेलनसभायां केरळस्य प्रशस्तसाहित्यकारः यू के कुमारः पत्रिकायाः प्रकाशनमकरोत् । पत्रिकायाः सम्पादकः श्री रमेश् नम्पीशन् उपदेशक-समित्यङ्गानि वेणु चोव्वल्लूर्, पी जी अजित्त् प्रसाद्‌, टी के सन्तोष्‌ कुमार्, सि सुरेष् कुमार्, सङ्घस्य प्राक्तनाध्यक्षः क्रष्णन् नायर् च सन्निहितानि आसन् ।
केरळेषु प्रथमकक्ष्यातः आरभ्य संस्कृतकक्ष्या प्रचलति। तत्र च समस्या बह्वयः च वर्तन्ते। ताः परिहर्तुं संस्कृताध्यापकानां संस्कृतप्रणयिनाञ्च सहकारिता सख्यश्च आवश्यकी भवतीति 'संस्कृतध्वनिः' उद्‌घोषयति।