OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 18, 2017

मधुमेहरोगिभ्यः छात्रेभ्यः परीक्षामण्डपे भोज्यानुमतिः।
नवदिल्ली> वार्षिकमूल्यनिर्णयार्थं प्रविष्टमानेभ्यः प्रथमप्रकारमधुमेहरोगिभ्यः छात्रेभ्यः [टैप् १] दशमी तथा द्वादशीकक्ष्या छात्रेभ्यः परीक्षामण्डपं लघुभोज्यवस्तूनि जलं च आनेतुम् अनुज्ञा दीयते। राज्यसभायां गतदिने मानवविभवसहमन्त्रिणा उपेन्द्रकुश् वाहेन विज्ञापितमेतत्।
    मधुमेहौषधम् चाकलेहउत्पन्नानि फलानि अर्धलिटर् परिमितं जलञ्च प्रवेशयितुं शक्यते। मधुमेहचिकित्साविदग्दस्य भिषग्वरस्य प्रमाणपत्रं रोगमधिकृत्य विशदीकरणं च प्रथमाध्यापकाय समर्पयितव्यम्।

उत्तराखण्डे त्रिवेन्द्र सिंहः।
नवदिल्ली> उत्तराखण्डराज्यस्य भाजपा सर्वकारस्य नेता त्रिवेन्द्रसिंहरावत्तः भविष्यति। शनिवासरे तस्य नेतृत्वे मन्त्रिमण्डलं शपथग्रहणं करिष्यति। राजनगर्यां दरादूण् मध्ये आयोज्यमाने शपथग्रहणसमारोहे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सान्निध्यं भविष्यति।

सुख-भोगवस्तूनां मूल्यवर्धनम्।
नवदिल्ली>सुख-भोगवस्तूनां शीतलपानीयानां च १५/सेस् योजनाय जी एस् टी समितियोगे निर्णयः। करस्योपरि भवति सेस् । अनेन सुख-भोगवस्तूनि उन्मादकवस्तूनि, सोडा, कोला आदीनां मूल्यवर्धनस्य निर्णयः अभवत्। धूमपान 'बीडी' विषये केरलस्य अवगणनाम्  अधिकृत्य धारणा न कृता। सेस्वाह्यमानेषु वस्तुषु बीडी त्याज्या यत: अनेकेषां कर्मकराणां जीवनोपाधि: सा इति धनमन्त्रिणा तोमस् ऐसकेन केन्द्रधनमन्त्रिण: अरुणजयट्ले: कृते पत्रं प्रेषितवान्। गुरुवारे प्रवृत्तसम्मेलने कर-विभाग-कार्यदर्शिना पी मारापाण्ड्येन केरलस्य अभिप्राया: विशदीकृता:। सुख-भोगवस्तूनां सेस् अधिकतया निश्चिता  चेदपि एकैकस्य कियदिति न निश्चितम्। जी एस् टी प्रावर्त्यमाने राष्ट्राणाम् आयनष्टं परिहर्तुं सेस् द्वारा धनार्जनमेव निर्णय: ।

कोच्चि विमाननिलयस्य सुरक्षाबलं वर्धयते।
कोच्ची>कोच्चि अन्ताराष्ट्रविमाननिलयस्य टि-३ इति कार्यनिर्वहणालयस्य प्रवर्तनक्षमतां पुरस्कृत्य केन्द्र उद्योग संरक्षणसेनायाः [सिऐएस्एफ्] अङ्गबलं वर्धयितुमुद्दिश्यते। विमाननिलयस्य सुरक्षायै सि .ऐ .एस् .एफ् .संस्था एव नियुक्ता अस्ति।
     एतदनुसृत्य ३६० सैनिकानपि नियोक्तुं केन्द्रगृहमन्त्रालयेन आदेशः कृतः। अनेन कोच्ची विमाननिलयस्य सि ऐ एस् एफ् सैनिकसंख्या आहत्य ८५४ भविष्यति।