OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 24, 2017

ब्रिट्टीष पारलमेण्ड् मन्दिरं प्रति भीकराक्रमणम्। चत्वारः मृताः। भीकरः अग्निगोलेन हतः।
लण्डन्> ह्यः सायं ब्रिट्टन् राष्ट्रं प्रकम्बयन् पारलमेण्ड् मन्दिरं प्रति शक्तं भीकराक्रमणम् अभवत्। आक्रमणे तस्मिन् भीकरेण सह चत्वारः हताः। त्रय आरक्षजनैः सह विंशतिजनाः व्रणबाधिताः अभवन्।
 ह्यः सायं चत्वारिशत् निमेषाधिक द्विवादने आसीत् भीकराक्रमणस्य प्रारंभम्। अतिशीघ्रम् आगतं एकं कारयानं पारलमेण्ड् मन्दिरस्य पार्श्वे वर्तमाने वेस्ट् मिनिस्टर सेतौ चलतः जनान् ताडयित्वा पारलमेण्ड् मन्दिरस्य कवाटम् अताडयत्।पुनः यानमवरुह्य मन्दरं धावितं भीकरं आरक्षकाः अरोधयन्। सः आरक्षकं कुठारेण अपातयत्।तदा अन्यः आरक्षकः तं अग्निगोलेन अपातयत्। पारलमेण्ड् मन्दिरे तदानीं सभाद्वययोः सम्मेलनं चलद् आसीत् ।

प्रपञ्चरहस्यमधिकृत्य केरलीयशास्त्रज्ञस्य नूतनं भारतीयदर्शनम्। 
कोच्ची > प्रपञ्चस्य आधारनिगूढताः अधिकृत्य भारतीयं दार्शनिकपारम्पर्यम् उपपाद्य केनचन केरलीयशास्त्रज्ञेन उपस्थापितं नूतनं दर्शनं शास्त्रलोके चर्च्यते। प्रसिद्धः कैरलीसाहित्यकारः तथा विख्यातशास्त्रज्ञः सि. राधाकृष्णः भवति अस्य नूतनदर्शनस्य उपज्ञाता।
    एतदधिकृत्य प्री स्पेस् टैम् जेर्णल् (pre- space time journal) नामकमासिकीद्वारा राधाकृष्णेन तस्य पुत्रेण के आर् गोपालेन च प्रसिद्धीकृतं अव्यक्तः दि फाब्रिक् ओफ् स्पेस् (Avyaktah the fabrics of space) नामकं लेखनं पठनार्हमिति केरला शास्त्र-साङ्केतिक सङ्घस्य(Kerala Science And Technology society) धुरन्धरैः उक्तम्।
     द्रव्यम् आधारीकृत्य प्रपञ्चं व्याख्यायमानं साधारणं भौतिकशास्त्रदर्शनात् व्यतिरिच्य स्पेस् अथवा स्थानम् इति सङ्कल्पनम् आश्रित्य एव सि राधाकृष्णः स्वदर्शनमवतारयति। स्थल-काल-द्रव्य-ऊर्जादीन् आश्रियमानानि इदानीन्तनतत्वशास्त्राणि एतद्दर्शनं परिवर्तयति।
  अव्यक्तादीनि भूतानि
   व्यक्तमध्यानि भारत।
   अव्यक्तनिधनान्येव
   तत्र का परिदेवना।। इति भगवद्गीताश्लोक एव आत्मानम् एतादृशीं चिन्ताधारामनयदिति तेनोक्तम्।

क्रूरकृत्येषु दण्ड्यमानानाम् आजीवनान्तरोध: भवेत् ।
नवदिल्ली > क्रूरकृत्येषु  अत्याचारेषु वा दण्डितानां नेतृणां निर्वाचनेभ्य:आजीवनान्तनिरोध: कल्पनीय: इति निर्वाचनसमित्या  परमोन्नतनीतिपीठस्य पुरत:केस्  समर्पितम् । एतस्मिन् विषये भी जे पी नेत्रा अश्विनी उपाध्यायेन दत्तायां सामान्यतात्पर्यहरजी मध्ये एव समित्यापि स्वीयाभिमतं व्यक्तीकृत्य सत्यवाड्मूलं दत्तम् ।