OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 3, 2017

असहिष्णुता भारतीयमुखं नास्ति - राष्ट्रपतिः।
 कोच्ची >धर्म - संस्कृतिषु असहिष्णुता भारतसंस्कृतेः अनुयुक्तं मुखं नास्तीति राष्ट्रपतिः प्रणब् मुखर्जी अवोचत्। संवादैः सत्यान्वेषणमेव भारतस्य पारम्पर्यम्। वैविध्यानाम् आघोषैः जनाधिपत्यस्य शक्तीकरणमेव भारतस्य संस्कृतिरिति राष्ट्रपतिना उक्तम्। कोच्च्यां ले मेरिडियन् कण्वेन्षन् सेनटर् मध्ये सप्ततिसंवत्सराणां भारतम् इति विषये के एस् राजामणि स्मारक प्रभाणं कुर्वन्नासीत् मुखर्जीवर्यः। भारते अनेकाः भाषाः , उपभाषाः , संस्कृतयश्च सन्ति। एतासु या कापि विभागीयतायाः असहिष्णुतायाः वा प्रवक्त्री न। विद्यमानायाम् असहिष्णुतायां राष्ट्रस्य अस्तित्वं न भवेत्। अतः सर्वाणि वैविध्यानि एकत्वलक्ष्यकानि भवेयुःइति राष्ट्रपतिः उदबोधयत्।

मौबैल् बाड्गिङ् -इतः विनिमय शुल्कः न स्वीकुर्युः।
नवदेहली> येषां चलनदूरवाण्यः सन्ति सर्वेषां एतेषां कृते मौबैल् बाड्गिङ् सौविध्यं संस्थापनीयमिति अर्थालयान् प्रति केन्द्रसर्वकारः निर्देशम् अयच्छत्।
 मौबैल् बाड्गिङ् संविधानाय अस्मिन् मासस्य एकत्रिंशत् दिनाङ्गपर्यन्तं सामान्यजनानां कृते बहु प्रचारणं कार्यमित्यपि निर्देशः अस्ति।
  राष्ट्रे इदानीं १०८ कोटि चलनदूरवाणी उपभोक्तारः सन्ति।तेषु २८.५ कोटि समर्थदूरवाण्यः सन्ति।प्रायशः ११० कोटि आधारपत्राणि  अपि सन्ति ।एतेषां उपयोगः करणीयः। दूरवाणीसड्केतेन सह आधारपत्रस्य तथा क्रमसंख्यया सह बन्धनम् अर्थालयस्य उत्तरदायित्वं स्यात्।

संस्कृतम् उद्योगसाध्यताश्च-सङ्गोष्ठी समायोजिता
पिलात्तरा - भारतीयसंस्कृतमहाविद्यालयस्य वार्षिकाघोषेनानुबन्धत्वेन संस्कृतच्छात्रेभ्य: संगोष्ठी समायोजिता। संस्कृतम् उद्योगसाध्यताश्च इत्यस्मिम् विषये श्री शङ्कराचार्या संस्कृतसर्वकलाशालाया: व्याकरणविभागाचार्य: डा. एम्.वि नटेशन् महाशय: पत्रप्रस्तुतिम् अकरोत्। कण्णूर् विश्विद्यालयस्य  अनुसन्धानविभागाध्यक्ष: डा. पि. मनोहरन् महाशय: कार्यक्रमस्य उद्घाडानम् अकरोत्। कार्यक्रमे कलालयस्य प्राचार्या के.जयलक्ष्मी आध्यक्षमानहत्। श्रीमति श्रीविद्या स्वागतम् विष्णुप्रसाद् कृतज्ञतां च उक्तवन्तौ।
कार्यक्रमे शताधिकाः छात्रा: भाागग्राहिण: आसन्।

काबुल विस्फोटे षोडशजना: मृता:
अफगानिस्तानदेशस्य राजधान्यां काबुल नगरे बुधवासरे आतंकवादिनां भीरु आक्रमणेन् १६ जनानां मृत्यु तथा च बह्वोपि आहता: जाता:। अफगानिस्तानदेशस्य गृहमंत्रालय पक्षत: सूचनागतं यत् विस्फोटानन्तरं ५ निमेषाभ्यन्तरे य: विस्फोटं कृतवान् स: स्वयमेव अपगान् खुफिया एजेंसी इत्यस्य द्वारेव स्वयमपि मृतवान् ।

मनुष्याधिकार-आयोगस्य  रिक्ततस्तिकाः पूरणीयाः - सर्वोच्चन्यायालयः।
नवदिल्ली> राष्ट्रियमनुष्याधिकार आयोगे रिक्ततस्तिकाः एप्रिल् त्रिंशत् दिनाभ्यन्तरे  पूरणीयाः इति  सर्वोच्चन्यायालयेन निर्दिष्टाः केन्द्रसर्वकाराः। सर्वोच्चन्यायालयाधीशस्य जे . एस्. खेहरस्य अध्यक्ष्ये न्यायालयाध्यक्षः डि. वै चन्द्रचूडः भञ्जयकिषन् कोलः आदिभिः युक्तविभागोत्पीठिकया निर्देशः दत्तः।  सर्वोच्चन्यायालयस्य अभिभाषकेन राधाकन्त त्रिपाठिना दत्तायां सार्वजनिक तात्पर्यापेक्षायाम् एव परिहार निर्देशः।