OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 22, 2017

शास्त्रगणित-स्पर्धायां भारतवंशजा सम्मानिता ।
वाषिङ्टण्> अमेरिक्कायां सम्पन्नायां शास्त्रगणित स्पर्धायां भारतवंशजा बालिका सार्द्ध द्विलक्षं डोलर्धनेन [पञ्चषष्टिलक्षाधिकैककोटि रूप्यकैः ] पुरस्कृता। मस्तिष्काघातेन रोगबाधया वा न्यूरोण् इत्यस्य संभूतं मरणं निवारयितुं कृताय गवेषणाय एव न्यूजेष़्सीस्था  इन्द्राणी दास्[१७ ] उन्नतपुरस्कारं प्राप्तवती ।  शास्त्रप्रतिभाणां चयनाय आयोजितेषु वार्षिकशास्त्रकौशलान्वेषणपरस्कारेषु आदिमेषु दशपुरस्कारेषु चतुरः पुरस्कारान् भारतीयवंशजा : छात्रा: एव स्वायत्तीकृतवन्त: I सङ्गणकयन्त्रप्रक्रमसम्बन्धिनः गणितग्राफ्सिद्धान्तस्य विकासाय एव इन्त्यानादेशस्थ: अर्जुन् रमणिः [१८] तृतीयस्थानेन सार्धलक्षडोलरमितेन पुरस्कारधनेन पुरस्कृतः । न्यूयोर्क् देशस्था अर्चना वर्मा [१७ ] सौरोर्जगवेषणविषये पञ्चमस्थानेन नवतिसहस्रं डोलर्मितेन धनेन पुरस्कृता। प्रतीक् नायिडुः [१७ ] अर्बुदं पारम्पर्यगुणघटकं च अधिकृत्य पठनसहायिने तंत्राम्शाय सप्तमस्थानेन सप्ततिसहस्रं डोलर्मितेन धनेन पुरस्कृतः । मलेरिया चिकित्सामधिकृत्य कृतपठना वृन्दा मदन् [१७ ] नवमस्थानेन पञ्चाशत् सहस्रं  डोलर्मितेन धनेन पुरस्कृता। अमेरिक्कायां सप्तशताधिकसहस्रं वरिष्ठविद्यालयीयछात्रा: एव अस्यां स्पर्धायां भागभाञ्जः आसन् ।

निर्माणे स्थितः सेतुः पतितश्च। हन्त! कर्मकराः रक्षां प्राप्तवन्तः I
रणाकुलं जिल्लायां मुलवुकाट् प्रदेशे निर्माणे स्थितः सेतुः भग्न : अधः पतितश्च। पिष़ल - मूलंपिल्लिसम्बन्धिसेतुरयं । सायं पञ्चवादने एव निर्माणे स्थितस्य सेतोः एकः स्तंभ : अधः पतितः । सेतुनिर्मातृषु  कर्मकरेषु चायपानार्थं गतेषु एव इयं दुर्घटना सम्पन्ना इत्यतः महती विपत्तिः न जाता। अस्मिन् समये सेतुस्थः वैद्युतिक: नद्यां कूर्दित्वा  स्वयं रक्षति स्म। एतस्याः दुर्घटनायाः कारणं अव्यक्तमेव। निर्माणसभायाः आश्रयत्वेन षडशीतिकोटि रूप्यकाणां निर्णयेन च समाप्तप्रायः सेतु: एव पतितः आसीत् । कटमक्कटि द्वीपवासिनां चिरकालस्वप्नः आसीत् एषः सेतुः।

रुप्यकपत्राणां विनिमयम्- सर्वकाराय रिसर्ववित्तकोशाय च उच्चतरन्यायालयस्यस्य पत्रिका।
नवदेहली- असाधूनां रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं अनुमतिनिषेधाय केन्द्रसर्वकारः तथा रिसर्ववित्तकोशश्च विशदीकरणं दातव्यमिति उच्चतरन्यायालयः।
असाधूनां सहस्र पञ्चशत रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं केन्द्रसर्वकारः अनुमतिः न अदात्। रुप्यकपत्राणां विनिमयाय  मार्च् ३१ दिनाड्कपर्यन्तम् अवकाशः अस्तीति प्रधानसचिवेन पूर्वम् उक्तमासीत्।प्रधानसचिवेन उद्घोषिते प्रस्तावे ईदृशं व्यतिचलनं न समीचीनमिति न्यायालयः अवदत्।
 मुख्यन्यायाधिपः जे एस् खेहार निवेदनोपरि निर्देशः अयच्छत्।

मेघालये अध्ययनविघ्निताः एकलक्षं बालकाः
 षिल्लोङ् - मेघालयराज्ये अध्ययनविघ्निताः विद्यालयाप्रविष्टाश्च एकलक्षं बालकाः सन्तीति राज्य शिक्षामन्त्री डबोरा सि मनाक् उक्तवान्। गते संवत्सरचतुष्टये राज्यस्य एकादशेषु जनपदेषु बालकाः बालिकाश्च सहिताः ९७,०८९ छात्राः स्तम्भिताध्येताः वर्तन्ते। गार्हिकसम्पद्समस्याः सर्वकारविद्यालयेषु भौतिकसुविधाभावश्च अस्य कारणमिति सूच्यते।

वार्तामुक्तकानि
राञ्ची - भारत-आस्त्रेलिययोः तृतीया निकषस्पर्धा समस्थितिं प्राप्ता। भारताय युगतशतकप्राप्तः चेतेश्वरपूजारा वरिष्ठक्रीडकः अभवत्।

 गोवा - सन्तोष् ट्रोफी पादकन्दुकस्पर्धायाः गुरुवासरे प्रवर्तमाने  द्वितीये उपान्त्यचक्रे  केरलं गोवया सह स्पर्धिष्यते।

 चेन्नै - तमिल्नाट् राज्ये कटलूर् प्रदेशे  पुरुषरन्ध्रशुचीकरणाय.  उद्युक्ताः  त्रयः मलिनकुल्याशुचीकरणकर्मकराः मृताः। पञ्चदशपादपरिमिते गर्ते अवतीर्णाः एते त्रयः विषवायुश्वसनेन एव यमपुरिं प्राप्ताः ।