OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 14, 2017

पञ्चवत्सरपद्धतेः अन्त्यकालः। नूतनायोजना त्रिवत्सरपद्धतिः।
नव दिल्ली > भारतस्य प्रप्रथमेन प्रधानमन्तिणा जवहर्लाल् महोदयेन आयोजिता आसीत्  पञ्चवत्सरपद्धतिः। आसूत्रणायोगस्य स्थाने नीति आयोगः योजनायाः संयोजनं करिष्यते। द्वादशतमस्य पञ्चवत्सरपद्धतेः अन्तिमं दिनं मार्च् मासे अवसितम्। एप्रिल्मासस्य त्रयोविंशति दिनाङ्के प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये नीति-आयोगास्य शासनोपवेशनं भविष्यति।

 परमाणुरहित-विस्फोटकः पातितः
अमेरीकीय सैन्यबलेन प्रोक्तं यत् अफगानिस्ताने इस्लामिक्-स्टेट् इत्यातंकिगुल्मस्य गह्वरस्थात्रेषु प्रथमवारं परमाणुरहित-विस्फोटकः पातितः, विस्फोटोsयं बृहत्तमम् अवर्तत। विस्फोटकस्य नाम
जीबीयू-43 इति विद्यते, विस्फोटस्यास्य प्रसिद्धिः  ''मदर ऑफ़ ऑल बॉम्ब्स'' इति नाम्ना वर्तते।
      एकेन अमरीकीयेन पेन्टागनस्थेन रक्षा मंत्रालयेन प्रतिपाद्यते यत् व्योमयानेन अफ़ग़ानिस्तानस्य नंगरहारप्रांते विस्फोटक: प्रपातित:। प्रकरणे अस्मिन् पेंटागनेन प्रोक्तं यत् विस्फोटकस्य लक्ष्यम् इस्लामिक्-स्टेट्-गुल्मस्य गोप्य स्थलान्यासन् ।

अष्ट भारतीयाः समुद्रतस्करेभ्यः मोचिताः।
सोमालिया> सोमालियादेशस्थसमुद्रलुण्डाकैः सप्ताहात्पूर्वम् अपहृताः भारतीयाः अष्ट महानौकाकर्मचारिणः मोचिताः। सोमालियायां होबियो नामकनगरसमीपस्थात् ग्रामादेव भारतसैन्यैः एते मोचिताः। एते सर्वे क्षुत्पिपासादिभिः परिक्षीणिताः आसन्। चत्वारः लुण्ठकाः सैन्यैःबन्धिताः।

कलाभवनं मणेः मरणम् - सि बि ऐ संस्थया अन्वेष्टव्यम्।
कोच्ची>निर्यातस्य सुप्रसिद्धकैरलीचलनचित्रनटस्य कलाभवन् मणिनामकस्य अस्वाभाविकमरणमधिकृत्य सि बि ऐ संस्थया अन्वेष्टव्यमिति उच्चन्यायालयेन आदिष्टम्। मासैकाभ्यन्तरे अन्वेषणस्य उत्तरदायित्वं स्वीकर्तव्यम्।
    मणेः पत्न्या निम्म्या तथा तस्य सोदरेण आर् एल् वि रामकृष्णेन च समर्पितां याचिकामाधारीकृत्य एव नीतिपीठस्य आदेशः। कैरल्याः अनुगृहीतकलाकारस्य मरणेन तस्य बान्धवानां सामान्यजनानाम् आराधकानां च मनसि  सञ्जाता दुरूहता दूरीकर्तव्या इति न्यायालयेन निरीक्षितम्।