OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 29, 2017

 पुदुच्चेर्यं द्वि-दिवसीय-संस्कृत-कार्यशाला सुसम्पन्ना।
पुदुच्चेरी>पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीय-संस्कृत-कार्यशाला सुसम्पन्ना। कार्यशालायां हैदराबाद्-सिकन्दराबाद्-नगराद्वयात् षोडश-प्रतिभागिनः (पुरुषाः महिलाश्च) भागं गृहीतवन्तः। एतस्याः कार्यशालायाः दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः च इत्यादीनि वैज्ञानिकदृष्टिकोण-द्वारा पाठितानि। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन विशेषरूपेण पाठितम्। “शिक्षक-कौमारौ कुमारी वी. आश्रिता, कुमारः वी. श्रीकरः च सम्भाषणसंस्कृतस्य वर्गानां सञ्चालनं कृतवन्तौ” इति एतस्याः कार्यशालायाः विशेषता।
 शालायाः समारोप-समारोहः एप्रिल्-मासस्य षोडश-दिनाङ्के सायङ्काले पञ्चवादनतः सम्पन्नः। एतस्यावसरे हैदराबाद्-नगरस्थः प्रसिद्धसंस्कृतपण्डितः श्रीमान् ओगेटि कृपालुः समारोहस्य अध्यक्षासनं गृहीतवान्। हैदराबाद्-नगरस्थः हैदराबाद्-विश्वविद्यालयस्य संस्कृत-अध्ययन-विभागस्य प्रोफेसर् डॉ. जे.एस्.आर्. आञ्जनेय प्रसाद् मुख्य-अतिथिः अभवत्। द्वौ महानुभावौ संस्कृतभाषाध्ययनस्यावश्यकतां उक्तवन्तौ। तत्परं तौ प्रमाण-पत्र-वितरणम् अकरुताम्। तत्पूर्वं प्रतिभागिनः कार्यशालावसरे प्राप्तान् तेषां स्वानुभवान् प्रकटितवन्तः, सन्तृप्तिं सन्तोषञ्च सूचितवन्तः।