OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 24, 2017

अधिकमूल्ययुक्तपुस्तकानि क्रेतु छात्रान् निर्बद्धमानान् विद्यालयान् विरुध्य सि बि एस् इ।
नवदिल्ली> ये विद्यालयाः स्वायत्तसंस्थया प्रकाशितानामधिक-मूल्ययुक्त-पाठपुस्तकानां तथा गणवेषं, टिप्पणिपुस्तकानि, पठनोपकरणानि च क्रेतुं छात्रान् निर्बन्धयन्ति तेषामवरोधः नियमानुसारं करिष्यति इति सि बि एस् इ स्पष्टीकरोति। छात्रेभ्यः केन्द्र-सर्वकारनियुक्ताभ्यां एन् सि आर् टि, सि बि एस् इ संस्थाभ्यां सज्जीकृतपाठ्यसरणियुक्तानि पुस्तकान्येव विद्यालयाधिकृतैः दातव्यानि इति सि बि एस् इ संस्थया २०१६ तमे वर्षे निर्देशः दत्तः आसीत्। यानिकान्यपि वाणिज्यप्रवर्तनानि विद्यालयेषु नियमदृष्ट्या नाङ्गीक्रियन्ते। समीपकाले देहल्यां द्वादशकक्षायै स्वायत्तसंस्थाप्रकाशितपुस्तकेषु स्त्रीणाम् सावमानचित्राणां मुद्रितविषये विवादः सञ्जातः आसीत्। देशे १८००० विद्यालयाः सि बि एस् इ संस्थया बद्धाः सन्ति। १०१६ तमे वर्षे निर्देशपालनमकुर्वतां विद्यालयानाम् अङ्गीकारस्य निरासम् करोति इति सि बि एस् इ असूचयत् ।