OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 30, 2017

तर्जनमनादृत्य उत्तरकोरियायाः आग्नेयशस्त्रपरीक्षणम्। 
सोल् >अमेरिक्कायाः तर्जनं पूर्वसूचनां च अनादृत्य उत्तरकोरियाराष्ट्रेण पुनरपि अग्निशस्त्रपरीक्षणं [मिसैल्] कृतम्। ह्यः प्रभाते विक्षिप्ता के एन् - १७ नामकं मध्यदूराग्नेयशस्त्रं अविलम्बेनैव  भग्नमभवदिति दक्षिणकोरियया निगदितम्। विक्षेपणं भूत्वा होराणामाभ्यन्तरे अमेरिक्कायाः यू एस् एस् काळ् विन्सण् नामिका विमानवाहिनिमहानौका दक्षिणकोरियया सह संयुक्तसैनिकाभ्यासः आरब्धवती।

विरामकालीनकक्ष्याः निरुध्य सामान्यशैक्षिकविभागस्य आदेशः। 
कोच्ची >केरळे विद्यालयेषु  ग्रीष्मविरामकालकक्ष्याः निरुध्य सामान्य शैक्षिकविभागेन आदेशः कृतः। राष्ट्रियबालाधिकारशासनस्य निर्देशमनुसृत्यैव अयं पदक्षेपः।
    सि बि एस् ई , ऐ सि एस् ई विद्यालयाभिव्यापकानां सर्वेषां सर्वकार- धनसाहाय्योपकृत [aided]- स्वाश्रय [unaided ] विद्यालयानां कृते अपि अयमादेशः बाधते।