OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 7, 2017

योगिन: मार्गे चौहान: -  मध्यप्रदेशे २५ (पञ्चविंशति:) विरामदिनानि  निष्कास्यन्ते।
       भोपाल:>उत्तरप्रदेशे मुख्यमन्त्री योगी आदित्यनाथ: सार्वजनीन-विरामदिनानि ऊनीकृतवान्; शासनक्रममेतम् अनुसृत्य मध्यप्रदेशसर्वकारेणापि २५ (पञ्चविंशति:) विरामदिनानि निष्कास्यन्ते।  प्रमुखानां जनन,मरण , वार्षिकदिनेषु दीयमानविरामा:  एव  निष्कास्यन्ते । २० (विंशति:) त: २५ (पञ्चविंशति:) विरामदिनानि एवं निष्कासयितुम् उद्दिष्टानीति शिक्षामन्त्री  दीपक जोशी उक्तवान् । भगतसिंहस्य चरमवार्षिकदिने विरामदानेन छात्रा:  तमुद्दिश्य किं पठेयु:?, तथा च विरामदानापेक्षया  तत् कस्य जन्म, चरमवार्षिकं वा भवतु; तेषां जीवनं सम्भावनाश्च  छात्रान् पाठयाम: इति दीपक जोशी योजितवान्।   कानि कानि विरामदिनानि निष्कासयेयु: इति आलोचनायाम् वर्तन्ते।  एकस्मिन् शैक्षणिकवर्षे विरामदिनानि ३५ ( पञ्टत्रिंशत् ) इति ऊनीक्रियन्ते इत्यपि सूचना अस्ति।  मध्यप्रदेशसर्वकारस्य सार्वजनीनदिनदर्शिकानुसारं ७६ (षट् सप्तति:) विरामदिनानि सन्ति।  एतेषु ५४ (चतुष्पञ्चाशत्) नियन्त्रितविरामाश्च अन्तर्भवन्ति।  एकस्मिन् अध्ययनवर्षे १५० (सार्धशतम्) प्रवृत्तिदिनानि सन्ति  तानि च १८५ (पञ्चाशीत्युत्तरशतम्) इति वर्धयितुमेव  सर्वकारै: लक्षीक्रियन्ते।।