OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 21, 2017

समान्तरप्रपञ्चस्य दृष्टान्त:।
                नेके प्रपञ्चा: वर्तन्ते वा ???  प्रश्नोयं बहुकालेभ्य: गवेषकानां कष्टं जनयति ।  समान्तरप्रपञ्चा: ( मल्टि वेल्ड्स् )  भवेयुरिति  शास्त्रज्ञा: अपि अभिप्रयन्ति । इदानीम् इदम्प्रथमतया समान्तरप्रपञ्चस्य दृष्टान्त: व्यक्त : इति ब्रिटण् राष्ट्रस्य राजकीयज्योतिश्शास्त्रसमाज: ( रोयल् अस्ट्रोणमिकल् सोसैटी )  अधीशत्ववादम् उन्नयति । प्रपञ्चस्य विदूरमेखलायां दृष्टिपथमागत: अशीत्यधिकैकशतम्  ( १८० )   विशाल: अतिशैत्यप्रदेश:  एव इतरप्रपञ्चस्य दृष्टान्तत्वेन गवेषकै: सूच्यते ।
 पञ्चदशोत्तरद्विसहस्रतमे (२०१५ ) वर्षे दृष्टभूतायाम् अस्याम्  सामान्येन भवितव्या:उपायुता: नक्षत्रसमूहा: न्यूना:  इति पठनेषु व्यक्तं प्रतिभाति । प्रपञ्चेतरभागान् अपेक्ष्य विंशति: प्रतिशतं द्रव्यमपि अत्र ऊनमेव । प्रतिभासस्यास्य विशदीकरणं  दातुं गवेषका: असमर्था: । तथा अन्य: कश्चन प्रपञ्च: अस्माकम् प्रपञ्चम् अतिक्रम्यारूढ: स्यादित्यपि अनुमीयते । नक्षत्रसमूहान् द्रव्याणि च समीपप्रपञ्च:  अगिलत् इति सार: । अस्माकम् प्रपञ्च:  कोटिश: विद्यमानसमान्तरप्रपञ्चै: सह घट्टनात्परं गिलनस्य अवशिष्टं स्यात् इयं शीतमेखलेति गवेषणस्य नेतृस्थानीय: ड्यूर्हाम् सर्वकलाशालाया: ज्योतिश्शास्त्रविभागमेधावी प्रोफ . टोम् षान्क्स् अभिप्रैतवान् । कोरनल् सर्वकलाशालाया:  आर्कैव् ओर्ग् सैट् मध्ये पठनम् प्रसिद्धीकृतं वर्तते । स्टीफन् होकिंङ्स् प्रभृतय: विख्याता: भौतिकशास्त्रज्ञा:अन्यप्रपञ्चा: भवेयुरिति पूर्वमेव उक्तवन्त:  । तत्रत्या:  भौतिकनियमा: अस्मत्त: भिन्नाश्च भवेयुरिति सूचयन्ति । एकस्मात् अपरप्रपञ्चं प्रति प्रवेशनमपि असाध्यमिति निगमनम् ।