OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 9, 2017

 अन्तर्विद्यालयीया संस्कृत-वार्तावतारण-प्रतियोगिता समनुष्ठिता
नवदिल्ली>नवदिल्यां सम्प्रति वार्ता: इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता।  प्रतियोगितायामस्यां छात्रै: संस्कृतस्य पृथक् पृथक् वार्तानां  वाचनमभिप्रस्तुतम् । अथ च अस्यां प्रतियोगितायां  दिल्ल्या: प्रतिष्ठितानां द्वादश विद्यालयानां  छात्रा: प्रतिभागित्वेन उपस्थिता: अवर्तन्त। ध्येयमस्ति यत् प्रतियोगितायामेतस्यां द्वादशविद्यालयानां  षष्ट्यधिका:  विद्यार्थिन: भागमभजन्त।
अथ च प्रतियोगितायां आर के पुरमस्थ: डी. पी.एस. विद्यालयीया: छात्रा: प्रथमम्, पूसा रोड स्थस्य रा मजस पब्लिक विद्यालयस्य  छात्रा: द्वितीयम् , द्वारकोपनगरस्थस्य बाल भारती पब्लिक विद्यासलयस्य च छात्रा:  तृतीयं स्थानमधिगतवन्त:।
अवसरेsस्मिन्  निर्णयमण्डले डॉ. सुनीता गेहानी वर्या, श्रीमती पूनम शर्मा महोदया च अवर्तन्त।  अत्रावसरे निर्णयमण्डलीया सदस्या डॉ. सुनीता गेहानी  महाशया प्रत्यपादयत् यत्  अद्यतने आधुनिके युगे संस्कृत भाषा वैश्विकभाषाया: स्वरूपे परिवर्तते सर्वत्र विश्वस्तरे संस्कृतस्य लोकप्रियता संवर्धते, अतः संस्कृत भाषाया: संवर्धनाय अनुसंधानाय च नवयुवकानाम् अतोSपि समेधनस्य आवश्यकता वर्त्तते। प्रतियोगिताया: प्रारम्भ: मातु: सरस्वत्या: वन्दनापूर्वकं सरस्वत्या: मूर्तौ  माल्यार्पणेन  दीपप्रज्वलनेन सह सञ्जात:।  अस्य नूतनकार्यक्रमस्योपक्रमस्य  स्वरुपस्य च संकल्पना डॉ. ज्योत्स्ना श्रीवास्तव वर्यया   श्री युवराजभट्टराई महोदयद्वारा च विहिता आसीत्। आयोजनमिदमत्यन्तं सफलं शलाघ्नीयम् कतिपयपक्षैश्च आश्चर्यकरं  च अवर्तत। अद्य यावत् प्रायः सर्वेषु विद्यालयेषु समायोज्यमानेषु, समायोजयिष्यमाणेषु च संस्कृतस्य पारम्परिक प्रतियोगिताभ्य: पृथग्भूय संस्कृतमाधुनिकतया संयोजनदृशा कार्यक्रमोSयमत्यन्तमेव सान्दर्भिक: उपयुक्तश्च संसिद्ध:। कार्यक्रमस्य सफलायोजने दीपककुमारशर्मण: महद् योगदानम् आसीत्।
न्यू राजेन्द्रनगरस्थितेन बालभारती पब्लिक विद्यालयेन एव  सम्प्रति वार्ता:  इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता आसीत् ।