OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 10, 2017

इराने स्थानद्वये  ऐ एस्  भीकराक्रमणम्;  द्वादश मरणानि।
टेहरान्>  इरानस्य नियमनिर्माणसभायाम् ( पार्लमेन्ट् )  तथा परमोन्नतनेतु:  आयत्तुल्ला खुमैने: अन्त्यविश्रमस्थाने च  प्रवृत्ते सन्नद्धमरणभीकराक्रमणे द्वादशजना: हता:  । द्विचत्वारिंशत्  जनानां  क्षता: अभवन्  ।नियमनिर्माणसभायाम् घण्टा: यावत् प्रवृत्तसङ्घट्टनानन्तरं  चतुर: भीकरान् सुरक्षासेना अहनत् । द्वन्द्वाक्रमणयो:  दायित्वम्  भीकरसङ्घटनेति ख्याता ऐ एस्  सङ्घटनया स्वीकृतम् । षिया भूरिपक्षराष्ट्रे इराने  षियाविरुद्धै: ऐ एस् भीकरै: क्रियमाणम् प्रथमम् भीकराक्रमणम् एतत् ।षियामुहम्मदान्  मतद्रोहिन:  इति पश्यन्तीम् ऐ एस् सङ्घटनां विरुद्ध्य  सिरियायाम् इराखे च युद्धरङ्गे  इरानाश्रित्य स्थिता: षियाविभागा: एव । मध्यटेहराने नियमनिर्माणमन्दिरे  ह्य: प्रात: प्रवृत्ते  सम्मेलनमध्ये  एव यन्त्रभुशुण्डिभि: सह  चत्वार: सन्नद्धमरणा:  अतिक्रम्य प्रविष्टा:। एतेषु एक:  स्फोटनेन सह स्वयंम् भग्नगात्रश्च अभवत् । चत्वारोपि स्त्रीवेषे आगता: इति  इरानस्य आभ्यन्तरमन्त्री  मुहम्मद: हुसैन् सुल्फगारि:  अवदत् । पञ्चाधिकघण्टा: यावत्  प्रवृत्तस्य सैनिकप्रवर्तनस्य  पश्चात् भीकरा: सैनिकाधीना: जाता: इति अधिकारिण: न्यवेदयन् । नियमनिर्माणसभायाम् आक्रमणस्य समनन्तरमेव सन्नद्धमरणानाम्  अन्य: सङ्घ:  इरानस्य विप्लवनायकस्य आयत्तुल्ला खुमैने:  अन्त्यविश्रमस्थानम् अपि आक्रामत् । तस्य अन्त्यविश्रमस्थानयुतस्य स्मारकस्य समीपं सन्नद्धमरणानां स्फोटनम् प्रवृत्तम् इति वदन्ति । भीकरेषु  एकं सैनिका: अहनत्  एकां स्त्रियं गृहीतवन्तश्च इत्यपि आवेदयन्ति ।