OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 8, 2017

संस्कृतं वा शीलम् ????? बालिकामुपहस्य सी एन् एन् दूरदर्शनावतारिका।
 न्यूयोर्क्>अमेरिक्कायाम् प्रवृत्तायाम्  आङ्गलपदानाम् अक्षरविवेचनस्पर्धायाम्  प्रथमस्थानम् प्राप्तां कैरलीबालिकाम्  अनन्या विनयम् (१२ वयस्कां ) उपहस्य सी एन् एन् दूरदर्शनशृङ्खलावतारिकाया: वंशीयपरामर्श:। गतसप्ताहे वाषिङ्टणे प्रवृत्तायाम् अक्षरविवेचनस्पर्धायाम् प्रथमस्थानम् प्राप्ताम् अनन्याम् अवतारिके अलिसिन् कामिरोटा  , क्रिस्  कोमो च मिलित्वा  अभिमुखं कृतवत्यौ। अभिमुखभाषणमध्ये  कामिरोटा अनन्याम् प्रति  अमेरिक्का राष्ट्रपते: डोणाल्ड् ट्रम्पस्य ट्वीट्टर् सन्देशान्तर्गतस्य "कोव्फेफे" इति प्रशस्तस्य असम्बन्धपदस्य अक्षरविन्यासक्रमं ताम् अपृच्छत् । तस्य पदस्य निर्वचनम् मूलभाषां च अनन्या ताम् प्रत्यपृच्छत् । आत्मार्थतया तस्य पदस्य अक्षरविन्यासं वक्तुं कृतपरिश्रमा सा बालिका अन्ते "कोफेफे" इति अक्षरविन्यासम् उक्तवती। वस्तुत: अक्षरविन्यास: "कोव्फेफे" इति स्पष्टीकृत्य कामिरोटा, एतत् असम्बन्धपदमिति च उक्त्वा एतस्य उद्भव: यथार्थतया संस्कृतात् वेति  अस्माकं निश्चय: नास्तीत्यपि सूचितवती।  संस्कृतमेव खलु नित्यमुपयुज्यते भवद्भि: इत्यपि योजितवती। अवतारक: क्रिस् कोमो  अनन्याया: सफलताम् अभिनन्दितवान् तथापि  संस्कृतसम्बन्धेन सह कामिरोटया कृतपरामर्शं विरुध्य समाजमाध्यमेषु व्यापकप्रतिषेधा: प्रसरन्ति।