OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 19, 2017

 पाक् अधिवेशनम्; अनधिकृत: दूरवाणीसङ्केत: (टेलिफोण् एक्स्चेञ्च्) दृष्ट:।
लात्तूरु> भारतसैन्यस्य गोप्यविषयान्  स्ववशमानेतुम्  भारतदूरवाणीशृङ्खलायाम्  पाकिस्थानगुप्तचरसङ्घटनाया:  अधिवेश:। तीव्रवादविरुद्धगणेन  दूरवाणीविभागेन च शुक्रवासरे कृते संयुक्तसूक्ष्मनिरीक्षणसंशोधने  महाराष्ट्रस्य लात्तूरुमण्डले अनधिकृतौ द्वौ दूरवाणीसङ्केतौ  प्रवर्तितौ लक्षितौ। भारतस्य दूरवाण्यन्तर्जालशृङ्खलायाम्  आरुह्य अन्तर्जालस्थानमानोपरि शब्द:  (वी ओ ऐ पी) (वोय्स् ओवर् इन्टर्नेट् प्रोटोकोल्) आधारीकृत्य सन्देशविनिमयमार्गेण अतीव गोप्यानि सेनारहस्यानि स्ववशनयनमेवासीत् तेषाम् उद्देश:। जनुवरित: आरब्धे अन्वेषणे  दृष्टिपथमागत: चतुर्थ:  अनधिकृतदूरवाणीसङ्केतोयम्। इत: पूर्वं देहल्याम् हैदराबादे  भोप्पाले च एवं दूरवाणीसङ्केता: दृष्टा:। जम्मुकाश्मीराधारितसैन्यस्य गुप्तान्वेषणविभागात् आरक्षकेभ्य: सूचना: उपलब्धा: । एता: सूचना: अनुसृत्य महाराष्ट्रस्य तीव्रवादविरुद्धगणेन  लात्तूरु आरक्षकविभागेन तथा दूरवाणीविभागेन च संयुज्य कृतायां सूक्ष्मनिरीक्षणशोधनायाम् एव अनधिकृतदूरवाणीशृङ्खला दृष्टिप्राप्ता   षण्णवति सिम् समपत्राणि, एकं सङ्गणकम्, त्रीणि यन्त्राणि  च इत: गृहीतानि । षण्मासेभ्य: केन्द्रमिदम्  प्रवर्तनक्षमम्। त्रयस्त्रिंशत् वयस्क: युवक: कश्चन एतस्य चालक:। इत: प्राप्तसूचनाधारेण कृते अन्वेषणे वालाण्टिग्रामस्थात् आपणात्  द्वौ अन्ताराष्ट्रकवाटमार्गौ,  चतुर्दश सिम् समपत्राणि  अन्यवैद्युतोपकरणानि  च गृहीतानि। जान्वालमण्डलस्य  बाठकगृहे द्वितीयसूक्ष्मनिरीक्षणशोधनं कृतम्। इत: चतुष्षष्टिसंख्याकानि सिम्  समपत्राणि  एकम् अङ्कसङ्गणकम्  द्वौ अन्ताराष्ट्रकवाटमार्गौ  वैद्युतोपकरणानि च गृहीतानि। सार्धचतुर्लक्षरूप्यकमूल्ययुतानि  उपकरणानि द्वाभ्यां सूक्ष्मनिरीक्षणशोधनाभ्याम् गृहीतानि। सर्वकारवित्तभवने पञ्चदशकोटिरूप्यकाणां  नष्टम् एतेषां कुत्सितप्रवर्तनेन जातम्। दूरवाणीमेखलया अभिमुखीक्रियमाण: अतिरूक्ष: भीषण: भवति एवं सिम् पेटिकाभि: चाल्यमानानधिकृतकेन्द्राणि।